________________
श्री वर्धमानं जिनमहं स्तोतुं यतिष्य इति क्रियासंबन्धः । किंविशिष्टम् ? अनन्तम्-अप्रतिपाति, वि- विशिष्टं सर्वद्रव्यपर्यायविषयत्वेनोत्कृष्टं, ज्ञानं केवलाख्यं विज्ञानम्, ततोऽनन्तं विज्ञानं यस्य सोऽनन्तविज्ञानस्तम् । तथा अतीता:निःसत्ताकीभूतत्वेनातिक्रान्ताः, दोषा रागादयो यस्मात् स तथा तम् । तथा अबाध्यः-परैर्बाधितुमशक्यः, सिद्धान्तः-स्याद्वादश्रुतलक्षणो यस्य स तथा तम् । तथा अमर्त्याः-देवाः, तेषामपि पूज्यम्-आराध्यम् । __ अत्र च श्रीवर्धमानस्वामिनो विशेषणद्वारेण चत्वारो मूलातिशयाः प्रतिपादिताः । तत्रानन्तविज्ञानमित्यनेन भगवतः केवलज्ञानलक्षणविशिष्टज्ञानाऽऽनन्त्यप्रतिपादनाद्ज्ञानाऽतिशयः १ । अतीतदोषमित्यनेनाऽष्टादश दोषसंक्षयाऽभिधानाद् अपायापगमाऽतिशयः २ । अबाध्यसिद्धान्तमित्यनेन कुतीर्थिकोपन्यस्तकुहेतुसमूहाऽशक्यबाध स्याद्वादरूपसिद्धान्तप्रणयनभणनाद् - वचनाऽतिशय: ३ । अमर्त्यपूज्यमित्यनेनाऽकृत्रिम भक्तिभरनिर्भरसुराऽसुरनिकायनायकनिर्मितमहाप्रातिहार्यसपर्यापरिज्ञानात्- पूजाऽतिशयः ४ ।
१. अत:पूर्वम्-अनन्तविज्ञानमित्यादि-इति प्रतीकं ख. पुस्तके दृश्यते । तत्संगतम् । २. अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ।।७२।। .
कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।।७३ ।। अभिधानचिन्तामणिः प्रथमकाण्डे श्लोकौ । अन्तरायः-जीवस्य दानादिविघ्नकारकेऽष्टमे कर्मभेदे । यथा राजा कस्मैचिद्दातुमुपदिशति तत्र भाण्डागारिकोऽन्तराले विघ्रकृद्भवति तदन्तरायकर्माष्टमं
भवति । ३. कंकिल्लि कुसुमवुट्ठि देवज्झुणि चामरासणाइं च । भावलयभेरिछत्तं जयन्ति जिणपाडिहेराई ।।१।।
प्रवचनसारोद्वारे द्वार ३९ (गाथा ४४०) । छाया - १ अशोकवृक्षः, २ कुसुमवृष्टिः, ३ दिव्यध्वनिः, • ४ चामरे, ५ आसनानि च, । ६ भामण्डलं, ७ भेरी, ८ छत्रम्, । १ अशोकवृक्षः केवलः द्वादशगुण एव । सतु सप्तहस्तमानश्रीमहावीरशरीराद् द्वादशगुणीकृतः सन् एकविंशतिर्धनूंषि भवति । २ सुरकरविमुक्ताधस्थितवृन्तजानुदनपञ्जवर्णसुगन्धिपुष्पवर्षः । ३ सुरनरतिर्यक्जन्तुजातस्वस्वभाषापरिणामरमणीयः संख्यातीतपरिषत्प्राणियुगपदनेकशंसयापहारचतुरः क्षीरेक्षुद्राक्षाद्यधिकतरमाधुर्यवान्योजनगामी देशनानिनादः । ४ चामरे त्रिभुवनैश्वर्यसंसूचके शरञ्चन्द्रमरीचिनिचयगौरे प्रकीर्णके । ५ आसनम्-अमेयमहिमाविर्भावकं समुच्छलत्पञ्चवर्णमणिकीर्ण कदम्बककर्बुरितदिगन्तरं सिंहासनम् । ६ भामण्डलम्-निर्जितमार्तण्डमण्डलं मौलिपृष्ठप्रतिष्ठितं प्रभाजालम् । ७ भेरी-पुरतो व्योनि शब्दायमानः प्रतिरवभरितभुवनोदरो दुन्दुभिः । ८ छत्रम्
छत्रमेकदेशे समुदायोपचाराज्जगत् त्रयैकप्रभुत्वाविर्भावनचतुरं पार्वणचन्द्रमण्डलनिभातपत्रत्रयम् । (
स्याद्वादमञ्जरी)