________________
इह हि विषमदु:षमार रजनितिमिर तिरस्कार भास्करानुकारिणा वसुधातलावतीर्णसुधा-सारिणीदेश्यदेशनावितानपरमार्हताकृतश्रीकुमारपालक्ष्मापालप्रवर्तिताभयदानाभिधान-जीवातुसंजीवितनानाजीवप्रदत्ताशीर्वादमाहात्म्यकल्पाऽवधिस्थायि-विशदयशःशरीरेण निरवद्यचातुर्विद्य निर्माणैकब्रह्मणा श्रीहेमचन्द्र सारिणा जगत्प्रसिद्ध श्रीसिद्धसेन-दिवाकरविरचितद्वात्रिंशद्वात्रिंशिकानुसारि-श्रीवर्धमानजिनस्तुतिरुपमयोग व्यवच्छे दान्ययोगव्यवच्छे दा भिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वाऽवबोधनिबन्धनं विदधे । तत्र च प्रथमद्वात्रिंशिकायाः सुखोन्नेयत्वाद् तव्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या निःशेषदर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थ विवरणकरणेन १°स्वस्मृतिबीजप्रबोध- विधिविधीयते । तस्याश्चेदमादिकाव्यम्- ..
अनन्तविज्ञान मतीतदोष - मबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये ।।१।।
१. दुःषमारः-दुःषमाख्यः पञ्चमोऽर एकविंशतिवर्षसहस्रात्मकः कालः । एवं तत्तल्लक्षणविशिष्टाः
षड् अरा भवन्ति । तेषां सर्वेषां लक्षणानि-अभिधानचिन्तामणौ प्रथमकाण्डे ४२ श्लोके
द्रष्टव्यानि । २. 'तिमिर' इति नास्ति रा. पुस्तके । ३. 'सारणी' इति ख. पुस्तके पाठः । ४. 'जीवातुर्जीवनौषधम्' इत्यमरः । 'जीवानुसंजीवित' इति ख. पुस्तके पाठः । ५. 'स्थिरीकृत' इति ख. पुस्तके पाठः । ६. लक्षणागमसाहित्यतर्का इति चतस्रो विद्याः । ७. एतच्छाब्दार्थो व्याख्याकृताग्रे (श्लो. ६) क्रियते । ८. 'तस्याः' इति च. पुस्तके नास्ति । ९. 'विचारणा' इति च. पुस्तके पाठः । १०. 'संस्कार' इति ख. पुस्तके पाठः । ११. पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ।।
इत्यभिधानचिन्तामणौ द्वितीयकाण्डे २२४ श्लोकः । स्याद्वादमञ्जरीnaisinsaninindianshi)