________________
अतीतदोषता चोपशान्त मोहगुणस्थानवर्तिनामपि सम्भवतीत्यतः २क्षीणमोहाख्या-ऽप्रतिपातिगुणस्थान प्राप्तिप्रतिपत्त्यर्थ जिनमिति विशेषणम् । रागादिजेतृत्वाद् जिनः समूलकाषङ्कषितरागादिदोष इति । अबाध्यसिद्धान्तता च श्रुतकेवल्यादिष्वपि दृश्यतेऽतस्तदपोहायाप्तमुख्यमिति विशेषणम् । आप्तिर्हि रागद्वेषमोहानामैकान्तिक 'आत्यन्तिकश्च क्षयः, सा येषामस्ति-ते खल्वाप्ताः ६अभ्रादित्वाद् मत्वर्थीयोऽप्रत्ययः । तेषु मध्ये मुखमिव सर्वाङ्गानां प्रधानत्वेन मुख्यम् । 'शाखादेर्यः' ।।७।१।११४।। इति तुल्ये यः । अमर्त्यपूज्यता च तथाविधगुरूपदेश- परिचर्यापर्याप्तविद्याचरणसंपन्नानां सामान्यमुनीनामपि. न दुर्घटा, अतस्तन्निराकरणाय स्वयम्भुवमिति विशेषणम् । स्वयम्-आत्मनैव, परोपदेशनिरपेक्षतयाऽवगततत्त्वो भवतीति स्वयम्भूः-स्वयं संबुद्धः, तम् । एवंविधं चरमजिनेन्द्रं स्तोतुं स्तुतिविषयीकर्तुम्, अहं यतिष्ये-यत्नं करिष्यामि ।
१. उपशान्तः सर्वथानुदयावस्थो मोहो यस्य सः । २. क्षीणः-निःसत्ताकीभूतो मोहो यस्य सः । . ३. काचित्कदाचिदात्मनोऽवस्थाऽज्ञानपूर्णा भवति सा च सर्वतः प्रथमा अतएव निकृष्टा । अस्या
अवस्थाया आत्मा स्वाभाविकचेतनाचारित्रादिगुणविकासेन निर्गच्छति शनैः शनैः तत्तच्छक्तिविकासानुसारमत्त्क्रान्तो भवति च ततो विकासस्य पर्णतया पर्णतां गच्छति । यदा आत्मन आवरणरूपं कर्म क्षीयते ततो ज्ञानदर्शनचारित्र्यादिगुणानां शक्तिरधिका भवति । किंच यदा आवरणभूतकर्माधिक्यं तदा गुणानां शुद्धियूंना भवति . प्रथमाया निकृष्टावस्थाया निर्गम्य विकासस्य पूर्णावस्था लंभनीया इत्येव आत्मनः परमसाध्यम् । एतस्याः प्राप्तिपर्यन्त आत्मा क्रमशः तास्ता अवस्था लभते । इयमेव अवस्थाप्राप्तिश्रेणिविकासक्रम इत्यभिधियते । अयमेव विकासक्रमो जैनशास्त्रे गुणस्थानक्रम इत्युच्यते । गुणस्थानस्य चतुर्दश भेदाः । १ मिच्छे २ सासण ३ मीसे ४ अविरय ५ देसे ६ पमत्त ७ अपमत्ते । ८ नियट्टि ९ अनियट्टि १० सुहुमु ११ वसम १२ खीण १३ सजोगि १४ अजोगिगुणा । (द्वितीयकर्मग्रन्थद्वितीयगाथा) छाया मिथ्यात्वास्वादनमिश्रमविरतदेशं
प्रमत्ताप्रमत्तम् । निवृत्त्यनिवृतिसूक्ष्मोपशमक्षीणसयोग्ययोगिगुणाः । . ४. श्रुतेन केवलिनः श्रुतकेवलिनः । चतुर्दशपूर्वधरत्वात् । 'अथ प्रभवः प्रभुः । शय्यंभवो
यशोभद्रः संभूतविजयस्ततः ।।३३।। भद्रबाहुः स्थूलभद्रः श्रुतकेवलिनो हि षट् ।।३४ ।।
इति अभिधानचिन्तामणौ प्रथमकाण्डे । ५. निःशेषकृतेऽपि पुनरूद्भवमाशङ्कयात्यन्तिकः, अभूयःसंभवदोषविनाशः । इति ख. पुस्तके टिप्पनम् । ६. 'अभ्रादिभ्यः' हैमसूत्रम् ७।२।४६।
स्याद्वादमञ्जरी indurikaruni७)