________________
अत्र चाचार्यो भविष्यत्कालप्रयोगेण योगिनामप्यशक्यानुष्ठानं भगवगुणस्तवनं मन्यमानः श्रद्धामेव स्तुतिकरणेऽसाधारणं कारणं ज्ञापयन् यत्नकरणमेव मदधीनं न पुनर्यथावस्थितभगवद्गुणस्तवनसिद्धिरिति सूचितवान् । अहमिति च गतार्थत्वेऽपि परोपदेशाऽन्याऽनुवृत्त्यादिनिरपेक्षतया निजश्रद्धयैव स्तुतिप्रारम्भ इति ज्ञापनार्थम् ।
अथवा-श्रीवर्धमानादिविशेषणचतुष्टयमनन्ताविज्ञानादिपदचतुष्टयेन सह हेतुहेतुमद्भावेन व्याख्यायते-यत एव श्रीवर्धमानम्, अतं एवाऽनन्तविज्ञानम् । श्रिया-कृत्स्नकर्मक्षयाविर्भूताऽनन्त चतुष्कसंपद्रूपया वर्धमानम् । यद्यपि श्रीवर्धमानस्य परमेश्वरस्यानन्तचतुष्कसंपत्तेरुत्पत्त्यनन्तरं सर्वकालं तुल्यत्वात् चयापचयौ न स्तः, तथापि निरपचयत्वेन शाश्वतिकावस्थानयोगाद् वधर्मानत्वमुपचर्यते । यद्यपि च श्रीवर्धमानविशेषणेनानन्तचतुष्कान्त वित्वेनान्तविज्ञानत्वमपि सिद्धम्, तथाप्यनन्तविज्ञानस्यैव परोपकारसाधकतमत्वाद्, भगवत्प्रवृत्तेश्च परोपकारैकानिबन्धनत्वाद्, अनन्तविज्ञानत्वं शेषानन्तत्रयात् पृथग् निर्धार्याचार्येणोक्तम् ।
ननु यथा जगन्नाथस्यानन्तविज्ञानं परार्थं, तथाऽनन्तदर्शनस्यापि केवलदर्शनापरपर्यास्य पारार्थ्यमव्याहतमेव; केवलज्ञानकेवलदर्शनाभ्यामेव हि स्वामी क्रमप्रवृत्तिभ्यामुपलब्धं सामान्यविशेषात्मकं पदार्थसार्थं परेभ्यः प्ररूपयति; तत्किमर्थं तन्नोपात्तम् ? इति चेद् । उच्यते । विज्ञानशब्देन तस्यापि संग्रहाददोषः,
ज्ञानमात्राया उभयत्रापि समानत्वात् । य एव हि अभ्यन्तरीकृत समताऽऽख्यधर्मा विषमताधर्मविशिष्टा ज्ञानेन गम्यन्तेऽर्थाः, त एव ह्यभ्यन्तरीकृतविषमताधर्माः समताधर्मविशिष्टा दर्शनेन गम्यन्ते; जीवस्वाभाव्यात्। सामान्यप्रधानमुपसर्जनीकृतविशेषमर्थग्रहणं दर्शनमुच्यते । तथा प्रधानविशेषमुसर्जनीकृतसामान्यं च ज्ञानमिति ।
तथा यत एव जिनम्, अत एवातीतदोषम् । रागादिजेतृत्वाद्धि जिनः । न १. (१) अनन्तज्ञान (२) अनन्तदर्शन (३) अनन्तचारित्र (४) अनन्तवीर्य इति चतुष्कम् । २. ज्ञानेयत्तायाः । . ३. समता-सामान्याख्यधर्मः । ४. उपसर्जनं-गौणम् । Cuisitink स्याद्वादमञ्जरी