________________
चाजिनस्यातीतदोषता । तथा यत एवाप्तमुख्यम् । अत एवाबाध्यसिद्धान्तम् । आप्तो हि प्रत्ययित उच्यते । तत आप्तेषु मुख्यं श्रेष्ठमाप्तमुख्यम्। आप्तमुख्यत्वं च प्रभोरविसंवादिवचनतया विश्वविश्वासभूमित्वात् । अत एवाबाध्यसिद्धान्तम्। न हि यथावज्ञानावलोकितवस्तुवादी सिद्धान्तः कुनयैर्बाधितुं शक्यते । यत एव स्वयम्भुवम्, अत एवामर्त्यपूज्यम् । पूज्यते हि देवदेवो जगत्त्रयविलक्षणलक्षणेन स्वयंसम्बुद्धत्वगुणेन सौधमेन्द्रादिभिरमत्यैरिति । अत्र च श्रीवर्धमानमिति विशेषणतया यद् व्याख्यातं तदयोगव्यवच्छेदाभिधानप्रथमद्वात्रिंशिकाप्रथमकाव्यतृतीयपादवर्तमानं 'श्री वर्धमानाभिधमात्मरूपम्' इति विशेष्यवर्तमानं बुद्धौ संप्रधार्य विज्ञेयम् । तत्र हि आत्मरूपमिति विशेष्यपदम्, प्रकृष्ट आत्मा आत्मरूपस्तं परमात्मानमिति यावत् । आवृत्त्या वा विशेषणमपि विशेष्यतया व्याख्येयमिति प्रथमवृत्तार्थः ।।१।।
अस्यां च स्तुतावन्ययोगव्यवच्छेदोऽधिकृतस्तस्यं च तीर्थान्तरीयंपरिकल्पिततत्त्वाभासनिरासेन तेषामाप्तत्वव्यवच्छेदः स्वरूपम् । तब भगवतो यथावस्थितवस्तुतत्त्व- वादित्वख्यापनेनैव प्रामाण्यमतेऽश्नुते । अतः स्तुतिकारनिजगद्गुरोनिःशेषगुणस्तुतिश्रद्धालुरपि सद्भूतवस्तुवादित्वाख्यं गुणविशेषमेव वर्णयितुत्मनोऽभिप्रायमाविष्कुर्वन्नाह- .
अयं जनो नाथ ! तव स्तवाय गुणान्तरेभ्य: स्पृहयालुरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ।।२।। हे नाथ ! अयं-मल्लक्षणो जनः, तव गुणान्तरेभ्यो-यथार्थवादव्यतिरिक्तेभ्यो ऽनन्यसाधारणशारीरलक्षणादिभ्यः स्पृहयालरेव श्रद्धालरेव । किमर्थम् ? स्तवाय स्तुतिकरणाय । इयं 'तादर्थ्य चतुर्थी । पूर्व तु 'स्पृहे'ाप्यं वा इतिलक्षणा चतुर्थी ।
१. अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूपमहं
स्तुतेर्गोचरमानयामि ।।१।। इति अयोगव्यवच्छेदद्वात्रिंकायां संपूर्णः श्लोकः । २. हैमसूत्रम् २।२।५४।। ३. हैमसूत्रम् २।२।२६। ४. 'चतुर्थी' इति ह. पुस्तके नास्ति ।
स्याद्वादमञ्जरीAARAAAAAAAAAAAAAP)