________________
तव गुणान्तराण्यपि स्तोतुं स्पृहावानयं जन इति भावः । ननु यदि गुणान्तरस्तुतावपि स्पृहयालुता तत्किं` तान्यपि स्तोष्यति स उत नेत्या शङ्कयोत्तरार्धमाह-किन्त्वितिअभ्युपगमपूर्वकविशेषद्योतने निपातः । एकम् - एकमेव । यथार्थवादं यथावस्थितवस्तुतत्त्वप्रख्यापनाख्यं त्वदीयं गुणम्, अयं जनो विगाहतां - स्तुतिक्रियया समन्ताद् व्याप्नोतु । तस्मिन्नेकस्मिन्नपि हि गुणे वर्णिते तन्त्रान्तरीयदैवतेभ्यो वैशिष्ट्यख्यापनद्वारेण वस्तुतः सर्वगुणस्तवनसिद्धेः ।
अथ प्रस्तुतगुणस्तुतिः सम्यक्परीक्षाक्षमाणां दिव्यदृशामेवौचितीमञ्चति, नार्वाग्दृशां भवादृशामित्याशङ्कां विशेषणद्वारेण निराकरोति । यतोऽयं जनः परीक्षाविधिदुर्विदग्धः - अधिकृतगुणविशेषणपरीक्षणविधौ दुर्विग्धः - पण्डितंमन्य इति यावत् ।
अयमाशयः - यद्यपि जगद्गुरोर्यथार्थवादित्वगुणपरीक्षा मादृशां मतेरगोचरः, तथापि भक्तिश्रद्धातिशयात् तस्यामहमात्मानं विदग्धमिव मन्य इति । विशुद्धश्रद्धाभक्तिव्यक्तिमात्रस्वरूपत्वात् स्तुतेः, इति वृत्तार्थः ।। २ ।।
अथ ये कुतीर्थ्याः कुशास्त्रवासनावासितस्वान्ततया त्रिभुवनस्वामिनं स्वामित्वेन न प्रतिपन्नाः, तानपि तत्त्वविचारणां प्रति शिक्षयन्नाह -
गुणेष्वसूयां दधतः परेऽमी
मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ||३||
अमी इति- 'अदसस्तु विप्रकृष्टे' इति वचनात् तत्त्वातत्त्वविमर्शबाह्यतया दूरीकरणार्हत्वाद् विप्रकृष्टाः, परे - कुतीर्थिकाः भवन्तं त्वाम्, अनन्यसामान्यसकलगुण
,
१. 'स्पृहावानेवायम्' इति क. ख. पुस्तकयोः पाठः ।
२. 'तत्किमर्थ तत्रोपेक्षा इत्याशक्योत्तरार्धमाह-' इति रा. ह. पुस्तकयोः पाठः ।
३. 'परीक्षणम्' इति रा. ह. पुस्तकयोः पाठः ।
४. इदमस्तु संनिकृष्टे समीपतरवर्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ।।१।। इति संपूर्णः श्लोकः । ख. पुस्तके 'अदसस्तु विप्रकृष्टे' इति नास्ति ।
स्याद्वादमञ्जरी
१०