________________
निलयमपि; मा ईशं शिश्रियन्-मा स्वामित्वेन प्रतिपद्यन्ताम् । यतो गुणेष्वसूयां . दधत:-गुणेषु बद्धमत्सराः गुणेषु दोषाविष्करणं ह्यसूया, यो हि यत्र मत्सरी भवति स तदाश्रयं नानुरूध्यते, यथा माधुर्यमत्सरी करभः पुण्ड्रेक्षुकाण्डम् । गुणाश्रयश्च भवान् । एवं परतीथिकानां भगवदाज्ञाप्रतिपत्तिं प्रतिषिध्य स्तुतिकारो माध्यस्थमिवास्थाय, तान् प्रति हितशिक्षामुत्तरार्धेनोपदिशति-तथापि-त्वदाज्ञाप्रतिपत्तेरभावेऽपि, लोचनानि नेत्राणि संमील्य- मीलितपुटीकृत्य, सत्यं-युक्तियुक्तं, नयवर्त्म-न्यायमार्ग, विचारयन्तांविमर्शविषयीकुर्वन्तु । ____ अत्र च विचारयन्तामित्यात्मनेपदेन फलवत्कर्तृविषयेणैवं ज्ञापयत्यांचाों यदवितथनयपथविचारणया तेषामेव फलं, वयं केवलमुपदेष्टारः । किं तत्फलम् ? इति चेत्, प्रेक्षावत्तेति ब्रूमः । संमील्य विलोचनानीति च. वदतः प्रायस्तत्त्वविचारणमेकाग्रता हेतुनयननिमीलनपूर्वकं लोके प्रसिद्धमित्यभिप्रायः । अथवा अयमुपदेशस्तेभ्योऽरोचमान एवाचार्येण वितीर्यते; ततोऽस्वदमानोऽप्ययं कटुकौषधपानन्यायेनाऽऽयतिसुखत्वाद् भवद्भिनेत्रे निमील्य पेय एवेत्याकूतम् ।
ननु यदि च पारमेश्वरे वचसि तेषामविवेकातिरेकादरोचकता, तत्किमर्थं तान् प्रत्युपदेशक्लेश इति ? नैवम् । परोपकारसारप्रवृत्तीनां महात्मनां प्रतिपाद्यगतां रूचिमरुचिं वाऽनपेक्ष्य हितोपदेशप्रवृत्तिदर्शनात् तेषां हि परार्थस्यैव स्वार्थत्वेनाभिमतत्वात्। न च हितोपदेशादपरः पारमार्थिकः परार्थः । तथा चार्षम् -
'रूसऊ' वा परो मा वा, विसं वा परियत्तऊ । भासियव्वा हिया भासा सपक्खगुणकारिया' ।।१।। उवाच च वाचकमुख्यः
१. बोध्यछात्रविषयिणीम् । २. छाया-रूपषतु वा परो मा वा विषं वा पर्यटतु । भाषितव्या हिता भाषा स्वपक्षगुणकारिका ।
एतदर्थक एव श्लोको श्रीहेमचन्द्रकृतश्रेणिकचरित्रे द्वितीयसमें ३२ उपलभ्यते । तथाहि-परो
रूष्यतु वा मा वा विषवत् प्रतिभातु वा । भाषितव्या हिता भाषा स्वपक्षगुणकारिणी ।।३२।। ३. उमास्वातिः ।
स्याद्वादमञ्जरी ANAAK
A
A ११)