________________
'न' भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति' ।।१।। इति वृत्तार्थः ।।३॥
अथ यथावन्नयवर्त्म-विचारमेव प्रपञ्चयितुं पराभिप्रेततत्त्वानां प्रामाण्यं निराकुर्वना दितस्तावत्काव्यषट्केनौलूक्यमताभिमततत्त्वानि दूषयितुकामस्तदन्तःपातिनौ प्रथमतरं सामान्यविशेषौ दूषयन्नाह
स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः | परात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशला: स्खलन्ति ||४||
अभवन्, भवन्ति, भविष्यन्ति, चेति भावा:-पदार्थाः, आत्मा पुद्गलादयस्ते; स्वत इति - सर्व हि वाक्यं सावधारणमामनन्ति इति स्वत एव-आत्मीयस्वरूपादेव, अनुवृत्तिव्यतिवृत्तिभाज:-एकाकारा प्रतीतिः, एकशब्दवाच्यता चानुवृत्तिः । व्यतिवृत्तिः-व्यावृत्तिः, सजात्यविजातीयेभ्यः सर्वथा व्यवच्छेदः ; ते उभे अपि संवलिते भजन्ते-आश्रयन्तीति अनुवृत्तिव्यतिवृत्तिभाजः, सामान्य-विशेषोभयात्मका इत्यर्थः ।। .
. - अस्यैवार्थस्य व्यतिरेकमाह-न भावान्तरनेयरूपा इति-नेति निषेधे । भावान्तराभ्यां पराभिमताभ्यां द्रव्यगुणकर्मसमवायेभ्यः पदार्थान्तराभ्यां, भावव्यतिरिक्तसामान्यविशेषाभ्यां, नेयं-प्रतीतिविषयं प्रापणीयं, रूपंयथासंख्यमनुवृत्तिव्यतिवृत्तिलक्षणं स्वरूपं येषां ते तथोक्ताः। स्वभाव एव ह्ययं सर्वभावानां यदुनुवृत्तिव्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति । तथाहि घट एव तावत् पृथुबुनोदरायकारवान् प्रतीतिविषयीभवन् सन्नन्यानपि तदाकृतिभृतः पदार्थान् १. तत्त्वार्थसूत्रसंबन्धकारिकासु २९ श्लोकः ।। २. अनुवृत्तिः- अन्वयः । व्यतिवृत्तिः- व्यतिरेकः । ३. पूरणगलनधर्माण: पुद्गलाः (दशवैकालिकप्रथमाध्ययने) ४. 'व्यावृत्तिलक्षणम्' इति क. ख. पुस्तकयोः पाठः । (१२ didniudurirukta स्याद्वादमञ्जरी)