________________
घटरूपतया, घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याख्यां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन् 'विशेषव्यपदेशमश्नुते । इति न सामान्यविशेषयोः पृथक्पदार्थान्तरत्वकल्पनं न्याय्यम पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात् । न च धर्मा धर्मिणः सकाशादत्यन्तं व्यतिरिक्ताः । एकान्तभेदे विशेषणविशेष्यभावानुपपत्तेः; करभरासभयोरिव धर्मधर्मिव्यपदेशाभावप्रसङ्गाञ्च । धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पने एकस्मिन्नेव वस्तुनि पदार्थानन्त्यप्रसङ्गः; अनन्तधर्मकत्वाद् वस्तुनः । - तदेवं सामान्यविशेषयोः स्वतत्त्वं यथावदनवबुध्यमाना अंकुशलाः अतत्त्वाभिनिविष्टदृष्टयः तीर्थान्तरीया स्खलन्ति-न्यायमार्गाद् भ्रश्यन्ति, निरुत्तरीभवन्तीत्यर्थ । स्खलनेन चात्र प्रामाणिकजनोपहसनीयता ध्वन्यते । किं कुर्वाणाः ?, द्वयम् अनुवृत्तिव्यात्तिलक्षणं प्रत्ययद्वयं वदन्तः । कस्मादेतत्प्रत्ययद्वयं वदन्तः ?, इत्याह-परात्मतत्त्वात्-परौ पदार्थेभ्यो व्यतिरिक्तत्वादन्यौ, परस्परनिरपेक्षौ च यो सामान्यविशेषौ, तयोर्यदात्मतत्त्वं-स्वरूपम्, अनुवृत्तिव्यावृत्तिलक्षणं, तस्मात्तदाश्रित्येत्यर्थः, 'गम्ययपःकर्माधारे' ।।२।२।७४ ।। इत्यनेन पञ्चमी । कथभूतात् परात्मतत्त्वाद् ?, इत्याह-अतथात्मतत्त्वात् मा भूत् पराभिमतस्य . परात्मतत्त्वस्य सत्यरूपतेति विशेषणमिदम् । यथा येनैकान्तभेदलक्षणेन प्रकारेण परैः प्रकल्पितं, न तथा-तेन प्रकारेणात्मतत्त्वं स्वरूपं यस्य तत्तथा, तस्माद् यतः पदार्थेष्वविष्वग्भावेन सामान्यविशेषौ वर्तते; तैश्च तौ तेभ्यः परत्वेन कल्पितौ; परत्वं चान्यत्वं तच्चैकान्तभेदाविनाभावि । . ..
किञ्च पदार्थेभ्यः सामान्यविशेषयोरे कान्तभिन्नत्वे स्वीक्रियमाणे एकवस्तुविषयमनुवृत्ति- व्यावृत्तिरूपं प्रत्ययद्वयं नोपपद्येत । एकान्ताभेदे चान्यतरस्यासत्त्वप्रसङ्गः । सामान्यविशेष- व्यवहाराभावश्च स्यात् सामान्यविशेषोभयात्मकत्वेनैव वस्तुनः प्रमाणे न५ प्रतीतेः । परस्परनिरपेक्षपक्षस्तु पुरस्तानिोंठयिष्यते । अत एव तेषां वादिनां
१. विशेषसंज्ञाम् । २. कुत्सिताग्रहवन्तः । ३. हैमसूत्रम् ।२।२।७४। ' ४. अपृथम्भावेन । ५. 'प्रमाणेनैव' इत क. पुस्तके पाठः । (स्याद्वादमञ्जरीMARRRRRRRRRRRRAN १३)
D