________________
अभेदवृत्तिप्राधान्याद्, अभेदोपचारेण वा यौगपद्येन उच्यन्ते, ते च कालादिभिरिति व्यवस्था ।
विकलादेशो नयप्रधानः । सकलादेशः सर्वदेशीयो बोधः । विकलादेश एकदेशीयो बोधः । श्रोतुरभिप्रायविशेषो नयः । विशेषत्वादेवास्य न सर्वग्राहित्वम् । यद्विशेषग्राहित्वं नये वर्तते तदितरविशेषसमुदासीनत्वमपि तस्मिन् वर्तते । तदितरविशेषाऽस्वीकारे तु विशेषग्राहित्वेऽपि स नयाभासः ।
__स नयो द्वधा । द्रव्यार्थिकः पर्यायार्थिकश्च । द्रव्याथिके नैगमसङ्ग्रहव्यवहाराः । पर्यायार्थिक पुनः ऋजुसूत्रशब्दसमभिरूढैवंभूताः ।
तत्र नैगम इति नैके गमाः । गमा इति बोधः । धर्मद्वयस्य धर्मिद्वयस्य धर्मधर्मिणो वा एकत्र मुख्यामुख्यतया विधानं नैगमे भवति । धर्मद्वय एको मुख्यः इतरो गौणः । एवमेव धर्मिद्वये । धर्मधर्मिणोस्तु मध्ये धर्मिणो विशेष्यत्वेन । मुख्यता, धर्मस्य विशेषणत्वेन गौणता । सकलादेशे सर्वेषामेव धर्माणां प्रधान्यम्, अत्र एकस्यैव प्राधान्यमिति तदन्यस्य गौणता ।
सङ्ग्रह इति विशेषविरहितं सामान्यमात्रावगाहि ज्ञानम् । विशेषाणामेक-रूपतया ग्रहणं सङ्ग्रहः । अस्य भेदद्वयं-पर: अपरश्चेति ।
विशेषमात्रेषूदासीनः केवलं शुद्धं द्रव्यं सत्-तया मन्यमानः परः । सत्त्वं सकलावच्छिन्नं यथाऽस्य विषयः ।
अवान्तराणि द्रव्यत्वादीनि सामान्यानि स्वीकुर्वाणोऽपरः । अत्र घटत्वादिषूदासीनता ।
व्यवहार इति विधिपूर्वकमवहरणम् । सङ्ग्रहगृहीतानर्थान् सत्त्वादीन् स्वीकृत्य परामर्शविशेषण तान् विभजत इति व्यवहारः ।
ऋजुसूत्रः पर्यायार्थिकेषु प्रथमः । अयम् अतीतान् अनागतांश्च पर्यायान् गुणीकृत्य वर्तमानपर्यायमेव प्रधानभावेन दर्शयति । क्षणविध्वंसिनमपि पर्यायं स्वीकरोतीत्ययमस्य विषयः ।
( 20 A
uraniuminiu
स्याद्वादमञ्जरी