SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आत्मरूपम्, अर्थः, सम्बन्धः, उपकारः, गुणिदेशः, संसर्गः, शब्द इत्यष्टकम् । सप्तभङ्गयाः प्रत्येको भङ्गः एतैरष्टभिः विभक्तो भवति । तच्चैवम् १-घटत्वावच्छिन्नास्तित्वस्य प्रथमभङ्गविषयस्य येन कालेन सह सम्बन्धो वर्तते स कालः शेषैरनन्तैरपि धर्मः सह सम्बद्ध इति कालावच्छेदेनानन्तधर्माणा-मेकत्र युगपत् समावेशः । २-घटत्वावच्छिन्नास्तित्वस्य येन गुणेन सह सम्बन्धो वर्तते स गुणो गुणत्वेनानन्तैरपि गुणैः सह सम्बद्ध इति गुणावच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । ३-घटत्वावच्छिन्नास्तित्वस्य येन द्रव्येण सह सम्बन्धो वर्तते तद् द्रव्यं द्रव्यत्वेनानन्तैरपि धर्मः सह सम्बद्धमिति द्रव्यावच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । ४-घटत्वावच्छिन्नास्तित्वस्य स्वाश्रये यो. हि तादात्म्यसम्बन्धो वर्तते स तादात्म्यसम्बन्धोऽनन्तधर्माणामपि स्वाश्रये वर्तत इति सम्बन्धावच्छेदेनानन्त-धर्माणामेकत्र युगपत् समावेशः । . ५-घटत्वावच्छिन्नास्तित्वस्य य एव उपकारकभावः स एवानन्तधर्माणामपीति उपकारकभावेनानन्तधर्माणामेकत्र युगपत् समावेशः । - ६-घटत्वावच्छिन्नास्तित्वस्य संसर्गो येन क्षेत्रेण सह वर्तते तेनैव क्षेत्रेण सहानन्तानामपि धर्माणां संसर्ग इति क्षेत्रांवच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । ७-घटत्वावच्छिन्नास्तित्वस्य द्रव्यरूपेणान्यैस्सह य एव संसर्गभावः, स एव संसर्गभावोऽनन्तधर्माणामपीति संसर्गावच्छेदेनानन्तधर्माणामेकत्र युगपत् समावेशः । -८-घटत्वावच्छिन्नास्तित्वस्य वाच्यता येनैव शब्देन वर्तते तेनैव शब्देनशब्दतावच्छेदेनानन्तानामपि धर्माणां वाच्यता वर्तत इति शब्दावच्छेदेनानन्त-धर्माणामेकत्र युगपत् समावेशः। ___ अत्र द्रव्यास्तिकतामररीकृत्य सर्वेषामेव धर्माणां विधेयता । वस्तुनोऽशेषधर्मा स्याद्वादमञ्जरी r i nku 19)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy