SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ शब्दो द्वितीय: । अयमेकस्यापि शब्दस्यानेकानर्थान् स्वीकरोति । कालकारणलिङ्गसङ्ख्यापुरुषोपसर्गेरर्थभेद इत्यस्य मतम् । शब्दस्यैकस्यार्था अनेका अस्य विषयः । समभिरूढस्तृतीयः । अयं प्रत्येकशब्दस्य प्रत्येकमर्थं भिन्नमभिमन्यते । शब्दानामभेदमुपेक्षते च । एकस्य शब्दस्यैकोऽर्थोऽस्य विषयः । 1 एवंभूतश्चतुर्थः । अयं शब्दस्यार्थक्रियाकारितामपेक्षते । शब्दस्यार्थमात्रेण न व्यापारः, अपि तु शब्दबोधितार्थक्रियासहितत्वेन व्यापारः । अर्थक्रियाकारित्वमस्य विषयः । विषयोऽतिगहन इत्यनवकाशो विस्तरस्य । सकलादेशसप्तभङ्ग्या अनन्तधर्मात्मकत्वेन वस्तुनः प्रतिपादनम् । विकलादेशसप्तभङ्ग्या विशेषधर्मात्मकत्वेन वस्तुनः प्रतिपादनम् । तदेवं स्याद्वाद एव सप्तभङ्गीनीत्या सर्वव्यवस्थामूल इति निश्चितम् । दर्शनशास्त्रपरंपरायां सर्वेऽपि ग्रन्था निजदृष्टिमाश्रित्यैव परपक्षाक्षेपं स्वपक्षस्थापनं च कुर्वन्ति । प्रमेय-प्रमातृ-प्रमिति प्रमाणकथासु निजदृष्टिविलासः सकल- दार्शनिकैः पुरस्कृतः । पूज्यतमेन भगवता श्रीमद्मल्लिषेणसूरिणा स्याद्वादमञ्जर्यां कलिकालसर्वज्ञश्रीमद् हेमचन्द्राचार्यप्रणीतान्ययोगव्यवच्छेदद्वात्रिंशिकामनुसृत्य परपक्षाक्षेपपूर्वकं स्वपक्षस्थापनं विहितम् । स्याद्वाददृष्टिपरिपाकोऽत्रावसीयते । अत एव सर्वविदुषामादरणीयोऽयं ग्रन्थः । विद्वद्वर्येण श्रीमता मोतीलाललाधाजीमहोदयेनातिशयश्रमपूर्वकं सम्पादितोऽयं ग्रन्थः । पूर्वपक्षाणां मंतानि स्पष्टीकृतानि परिशिष्टे । ग्रन्थभावार्थाः विशदीकृताः टिप्पणीभिः । सर्वग्राही विहितो ग्रन्थसंदर्भसंग्रहः । गृहनिवासिन एतादृग्वैदुष्यं परमाश्चर्यस्य विषयः । परं प्रवर्तमानेऽनुवादयुगे तत्सम्पादनसहितोऽयं ग्रन्थो विस्मृततम एव । ततस्तस्याशुद्धमुद्रणपुरातनलिप्यक्षरादिकमामूलचूलं संशोध्य पुनः संपादितोऽयं ग्रन्थः । नवसौन्दर्यस्यास्य विषये विद्वांस एव साक्षिण इत्यलमाधिक्येन । स्याद्वादमञ्जरी boost 21
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy