________________
वीणावेणुमृदङ्गालललितं संगीतमास्वादयन् गीतं भावगुणाश्रयञ्च रसयन्विस्मृत्य सर्वं स्वयम् । रागाभावहतोऽपि मोदविवश: किञ्चिद् यथा गायति ग्रन्थानंदरसात्तथैव विहितं स्याद्वादसंकीर्तनम् । वाणी यस्य सुधासमुद्रसरसा सारस्वतीव प्रभा ज्ञानाऽद्वैतविधायिनी विजयते ऽनेकान्तसंदर्शिका । सन्ति प्रभवो मयीह विबलेऽनन्तप्रभावाश्रयाः सार्वज्ञेश्वररामचन्द्रगुरुवः साक्षात् कृपावर्षिणः ।। सौभाग्य-संभारसमाश्रयाणां ज्योतिर्विदामत्र गणाधिपानाम् । सूरीश्वराणां करुणामृतं श्रीमहोदयानामितदोषमस्ति ।। निरीहसंवेगरतिर्यतीन्द्रः श्रुताब्धि-वैराग्यरतिर्मुनीन्द्रः । पिता च बन्धुश्च सदा ममात्म- - सर्वस्वरूपेण सुसन्निधानाः ।।
इति शम् ।
वि.सं. २०५७ मृगशीर्षशुक्ल पञ्चमी ।
रामदास पेठ, नागपुर ।
22 * * * *Â Â Â Â Â Â Â dcdcdc PIEICHERT