________________
(समर्पणम्)
श्रीरामचन्द्रसूरीन्द्रं पूजय जयमङ्गलशतवासं रे वासवगुरुनुतवचनविहारं हारितभवविश्वासं रे १ श्वासगतावनुबद्धजिनाशं नाज्ञजनैरभिचरितं रे चरितचमत्कृतलक्ष्मीसुकलितंकलिताण्डवहतिललितं रे २ ललितगतिं गतिचक्रनिवारं वारणरिपुसमसत्त्वं रे सत्त्वलक्षवाञ्छितपदसेवं सेवितजिनगुणतत्त्वं रे ३ तत्त्वदेशनमनाहतविनयं नयनिपुणं महापुण्यं रे पुण्यकृपाविकसितभविकमलं मलभिदमाश्रवशून्यं रे ४
शून्यगुणेऽघरते स्रवदीक्षं दीक्षादेव्या दयितं रे ( दयितदर्शनं परिणतप्रशमं शमरतिशिखरे शयितं रे ५
23