________________
कुतश्चिदेवार्थात् कस्यचिदेव ज्ञानस्य जन्मेति 'कौतस्कुतोऽयं विभागः । - तदाकारता त्वाकारसंक्रान्त्या तावदनुपपन्ना, अर्थस्य निराकारत्वप्रसङ्गाद् ज्ञानस्य साकारत्वप्रसङ्गाञ्च । अर्थेन च मूर्तेनाऽमूर्तस्य ज्ञानस्य कीदृशं सादृश्यम् । इत्यर्थविशेषग्रहणपरिणाम एव साभ्युपेया । ततः
'अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम् । तस्मात् प्रमेयाऽधिगतेः प्रमाणं मेयरूपता' ।।१।।
इति यत् किञ्चिदेतत् । अपि च, व्यस्ते समस्ते वैते ग्रहणकारणं स्याताम् यदि व्यस्ते, तदा कपालाऽऽद्यक्षणो घटाऽन्त्यक्षणस्य, जलचन्द्रो वा नभश्चन्द्रस्य ग्राहकः प्राप्नोति । यथासंख्यं तदुत्पत्तेः तदाकारत्वाञ्च । अथ समस्ते, तर्हि घटोत्तरक्षणः पूर्वघटक्षणस्य ग्राहकः प्रसजति, तयोरुभयोरपि सद्भावात् । ज्ञानरुपत्वे सत्येते ग्रहणकारणमिति चेत् । तर्हि समानजातीयज्ञानस्य समनन्तरज्ञानग्राहकत्वं प्रसज्येत, तयोर्जन्यजनक
भावसद्भावात् । तन्न योग्यतामन्तरेणान्यद् ग्रहणकारणं पश्याम इति । . अथोत्तरार्धं व्याख्यातुमुपक्रम्यते । तत्र च बाह्यार्थनिरपेक्ष ज्ञानाद्वैतमेव '
ये बौद्धविशेषा मन्वते तेषां प्रतिक्षेपः । तन्मतं चेदम् । ग्राह्यग्राहकादिकलङ्कानङ्कितं निष्प्रपञ्चं ज्ञानमात्रं परमार्थसत् । बाह्यार्थस्तु विचारमेव न क्षमते, तथाहिकोऽयं बाह्योऽर्थः किं परमाणुरूपः, स्थूलावयविरूपो वा । न तावत् परमाणुरूपः, प्रमाणाऽभावात् । प्रमाणं हि प्रत्यक्षमनुमानं वा । न तावत्प्रत्यक्षं तत्साधनबद्धकक्षम् । तद्धि योगिनां स्यात्, अस्मदादीनां वा । नाऽऽद्यम् । अत्यन्तविप्रकृष्टतया श्रद्धामात्रगम्यत्वात् । न द्वितीयम्, अनुभवबाधितत्वात् नहि वयमयं परमाणुरयं परमाणुरिति स्वप्नेऽपि प्रतीमः स्तम्भोऽयं कुम्भोऽयमित्येवमेव नः सदैव संवेदनोदयात् । नाऽप्यनुमानेन तत्सिद्धिः । अणूनामतीन्द्रियत्वेन तैः सहाऽविनाभावस्य क्वापि लिङ्गे ग्रहीतुमशक्यत्वात् । १. कुतः कुत आगतः कौतस्कुतः । २. 'जडत्वप्रसंगाद्वा' इति क. पुस्तके पाठः । ३. प्रतिक्षेपः-खण्डनम् । स्याद्वादमञ्जरीM ARANA ११७)