________________
ग्राह्यत्वाऽऽपत्तिः, तेषामपि ज्ञानजनकत्वात् । न चाऽन्वयव्यतिरेकाभ्यामर्थस्य ज्ञानहेतृत्वं दृष्टं, मृगतृष्णाऽऽदौ जलाऽभावेऽपि जलज्ञानोत्पादात्, अन्यथा तत्प्रवृत्तेरसंभवात् । भ्रान्तं तज्ज्ञानमिति चेत् । ननु भ्रान्ताभ्रान्तविचारः स्थिरीभूय क्रियतां त्वया, सांप्रतं प्रतिपद्यस्व तावदनर्थजमपि ज्ञानम् । अन्वयेनाऽर्थस्य ज्ञानहेतुत्वं दृष्टमेवेति चेत् । न । न हि तद्भावे भावलक्षणोऽन्वय एव हेतुफलभावनिश्चयनिमित्तम्, अपि तु तद्भावेऽभावलक्षणो व्यतिरेकोऽपि । स चोक्तयुक्त्या नास्त्येव । योगिनां चातीताऽनागतार्थग्रहणे किमर्थस्य निमित्तत्वम्, तयोरसत्त्वात् ।
२ण णिहाणगया भग्गा पुंजो णत्थि अणागए । णिव्वुया णेव चिट्ठति आरग्गे सरिसवोवमा' ।। इति वचनात् । .
निमित्तत्वे चार्थऽ क्रियाकारित्वेन सत्त्वादतीताऽ नागतत्वक्षतिः । न च प्राकाश्यादात्मलाभ एव प्रकाशकंस्य प्रकाशकत्वं; प्रदीपादेर्घटादिभ्योऽनुत्पन्नस्याऽपि तत्प्रकाशकत्वात् । जनकस्यैव च ग्राह्यत्वाभ्युपगमे स्मृत्यादेः प्रमाणस्याऽप्रामाण्यप्रसङ्गः, तस्याऽर्थाऽजन्यत्वात् । न चस्मृतिर्न प्रमाणम्, अनुमानप्रमाणप्राणभूतत्वात् । साध्यसाधनसम्बन्धस्मरणपूर्वकत्वात् तस्य । . - जनक़मेव च चेद् ग्राह्यम्, तदा स्वसंवेदनस्य कथं ग्राहकत्वम् । तस्य हि ग्राह्यं स्वरूपमेब । न च तेन तज्जन्यते, स्वाऽऽत्मनि क्रियाविरोधात् । ___तस्मात् स्वसामग्रीप्रभवयोर्घटप्रदीपयोरिवार्थज्ञानयोः प्रकाश्यप्रकाशकभावसंभवाद् न ज्ञाननिमित्तत्वमर्थस्य । नन्वर्थाऽजन्यत्वे ज्ञानस्य कथं प्रतिनियतकर्मव्यवस्था । तदुत्पलितदाकारताभ्यां हि सोपपद्यते । तस्मादनुत्पन्नस्याऽतदाकारस्य च ज्ञानस्य सर्वार्थान प्रत्यविशेषात् सर्वग्रहणं प्रसज्येत । नैवम् । तदुत्पत्तिमन्तरेणाऽप्यावरणक्षयोपशमलक्षणया योग्यतयैव प्रतिनियताऽर्थप्रकाशकत्वोपपत्तेः । तदुत्पत्तावपि च योग्यताऽवश्यमेष्टव्या । अन्यथाऽशेषार्थसान्निध्ये तत्तदर्थाऽसांनिध्येऽपि
१. अतःपरं 'एवमन्यतरेष्वप्यर्थेषु भावनीयम्' इत्यधिकं क. पुस्तके । २. न निधानगता भग्नाः पुंजो नास्त्यनागते । निर्वृत्ता नैव तिष्ठन्ति आराग्रे सर्षवोपमाः ।।१।।
इति छाया ।
(१९६RANANASANSARANA स्याद्वादमञ्जरी