________________
यञ्च क्षणिकत्वस्थापनाय मोक्षाकरगुप्तेनाऽनन्तरमेव प्रलपितं तत् स्याद्वादवादे निरवकाशमेव, निरन्वयनाशवर्जं कथंचित्सिद्धसाधनात्, प्रतिक्षणं पर्यायनाशस्याऽनेकान्तवादिभिरभ्युपगमात् । यदप्यभिहितम्-न ह्येतत् संभवति-जीवति च देवदत्तो, मरणं चास्य भवतीति । तदपि संभवादेव न स्याद्वादिनां क्षतिमावहति । यतो जीवनं प्राणधारणं, मरणं 'चाऽऽयुर्दलिकक्षयः । ततो जीवतोऽपि देवदत्तस्य प्रतिसमयमायुर्दलिकानामुदीर्णानां क्षयादुपपन्नमेव मरणम् । न च वाच्यमन्त्याऽवस्थायामेव कृत्स्नायुऽऽर्दलिकक्षयात् तत्रैव मरणव्यपदेशो युक्त इति । तस्यामप्यवस्थायां 'न्यक्षेण तत्क्षयाऽभावात् । तत्रापि ह्यविशिष्टानामेव तेषां क्षयो न पुनस्तत्क्षण एव युगपत्सर्वेषाम्। इति सिद्धं गर्भादारभ्यं प्रतिक्षणं मरणम् । इत्यलं प्रसङ्गेन ।
अथवाऽपरथा व्याख्या-सौगतानां किलाऽर्थेन ज्ञानं जन्यते । तञ्च ज्ञानं तमेव स्वोत्पादकमर्थं गृह्णातीति, 'नाकारणं विषयः' इति वचनात् । ततश्चार्थः कारणं ज्ञानं च कार्यमिति । एतञ्च न चारु, यतो यस्मिन् क्षणेऽर्थस्य स्वरूपसत्ता तस्मिन्नद्यापि ज्ञानं नोत्पद्यते, तस्य तदा स्वोत्पत्तिमात्रव्यग्रत्वात् । यत्र च क्षणे ज्ञानं समुत्पन्नं तत्राऽर्थोऽतीतः । पूर्वीपरकालभावनियतश्च कार्यकारणभावः । क्षणाऽतिरिक्तं चावस्थानं नास्ति । ततः कथं ज्ञानस्योत्पत्तिः, कारणस्य विलीनत्वात् । तद्विलये च ज्ञानस्य निर्विषयताऽनुषज्यते, कारणस्यैव युष्मन्मते तद्विषयत्वात् । निर्विषयं च ज्ञानमप्रमाणमेवाऽऽकाशकेशज्ञानवत् । ज्ञानसहभाविनश्चाऽर्थक्षणस्य न ग्राह्यत्वम्, तस्याऽकारणत्वात्। अत आह-न तुल्यकाल: इत्यादि । ज्ञानार्थयोः फलहेतुभावः कार्यकारणभावस्तुल्यकालो न घटते। ज्ञानसहभाविनोऽर्थक्षणस्य ज्ञानाऽनुत्पादकत्वात् । युगपद्भाविनोः कार्यकारणभावाऽयोगात् । अथप्राचोऽर्थक्षणस्य ज्ञानोत्पादकत्वं भविष्यति। तन्न, यत आह-हेतौ इत्यादि । हेतावर्थरूंपे ज्ञानकारणे विलीने क्षणिकत्वानिरन्वयं विनष्टे न फलस्य ज्ञानलक्षणकार्यस्य भाव आत्मलाभ: स्यात् । जनकस्याऽर्थक्षणस्याऽतीतत्वाद् निर्मूलमेव ज्ञानोत्थानं न स्यात् । जनकस्यैव च ग्राह्यत्वे इन्द्रियाणामपि
१. यां प्रकृतिं बध्नाति जीवस्तदनुभावेन प्रकृत्यन्तरस्थं दलिकं परमाण्वात्मकम् । आयुःपरमाणुक्षय
इत्यर्थः । २. न्यक्षेण-पूर्णतया । ३. 'ज्ञानकारणं विषयः' इति क्वचित्पाठः ।
स्याद्वादमञ्जरी
initiatinian
११५)