________________
विनाश्यत इति । तदसत् । कथं पुनरेतद् घटिष्यंते न च तद् विनश्यति स्थावरत्वात्, विनाशश्च तस्य विरोधिना बलेन क्रियते इति । न ह्येतत्सम्भवति जीवति च देवदत्तो, मरणं चाऽस्य भवतीति । अथ विनश्यति, तर्हि कथमविनश्वरं तद् वस्तु स्वहेतोर्जातमिति ? न हि म्रियते च, अमरणधर्मा चेति युज्यते वक्तुम् । तस्मादविनश्वरत्वे कदाचिदपि नाशायोगाद्, दृष्टत्वाच्च नाशस्य, नश्वरमेव तद्वस्तु स्वहेतोरुपजातमङ्गीकर्तव्यम् । तस्मादुत्पन्नमात्रमेव तद्विनश्यति । तथा च क्षणक्षयित्वं सिद्धं भवति । प्रयोगस्त्वेवम्यद्विनश्वरस्वरूपं तदुत्पत्तेरनन्तराऽनव-स्थायि, यथाऽन्त्यक्षणवर्ति घटस्य स्वरूपम्, विनश्वरस्वरूपं च रूपादिकमुदयकाले, इति 'स्वभावहेतुः । यदि क्षणक्षयिणो भावाः, कथं तर्हि स एवायमिति प्रत्यभिज्ञा स्यात् ? उच्यते-निरन्तरसदृशाऽपराऽपरोत्पादात्, अविद्यानुबन्धाच्च पूर्वक्षणत्वाभावादव्यवधानाच्चात्यन्तोच्छेदेऽपि स एवायमित्यभेदाऽध्यवसायी प्रत्ययः प्रसूयते । अत्यन्तभिन्नेष्वपि रैलूनपुनरुत्पन्नकुशकाशकेशादिषु दृष्ट एवायं ' स एवायम्' इति प्रत्ययः, तथेहांऽपि किं न संभाव्यते ? तस्मात् सर्वं सत् क्षणिकमिति सिद्धम् । अत्र च पूर्वक्षण उपादानकारणम्, उत्तरक्षण उपादेयम्, इति पराऽभिप्रायमङ्गीकृत्याऽऽह-न तुल्यकालः इत्यादि । ते विशकलितमुक्तावलीकल्पा निरन्वयविनाशिनः पूर्वक्षणा उत्तरक्षणात् जनयन्तः किं स्वोत्पत्तिकाले एव जनयन्ति, उत क्षणाऽन्तरे । न तावदाद्यः, समकालभाविनोर्युवतिकुचयोरिवोपादानोपादेयभावाऽभावात् । अतः साधूक्तम्न तुल्यकालः फलहेतुभावः इति । न च द्वितीयः तदानीं निरन्वयविनाशेन पूर्वक्षणस्य नष्टत्वादुत्तरक्षणजनने कुतः संभावनापि । न चानुपादानस्योत्पत्तिर्दृष्टा, अतिप्रसङ्गात्। इति सुष्ठु व्याहृतं हेतौ विलीने न फलस्य भावः इति । पदार्थस्त्वनयोः पादयोः प्रागेवोक्तः । केवलमत्र फलमुपादेयं हेतुरुपादानं तद्भाव उपादानोपादेयभाव इत्यर्थः ।
१. 'विनश्वरम्' 'इति क. पुस्तके पाठः ।
२. न्यायबिन्दौ - (पृ. ६५-७३) तथा स्वभावहेतोः प्रयोगः यत्सत्तत्सर्वमनित्यं यथा घटादिरिति । शुद्धस्य स्वभावहेतोः प्रयोगः । यदुत्पत्तिमत्तदनित्यमिति । स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः । यत्कृतकं तदनित्यमित्युपाधिभेदेन । असत्यनित्यत्वे नास्ति सत्त्वमुत्पत्तिमत्वं कृतकत्वं वा । असंश्च शब्द उत्पत्तिमान् कृतको वेति स्वभावहेतोः प्रयोगः ।
३. पूर्व लूनाश्छिन्ना: कुशादयः पुनरुत्पद्यन्ते ।
४.
सूत्रविगलितमौक्तिकमालासदृशाः ।
११४ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐॐॐॐॐॐ स्याद्वादमञ्जरी