________________
ननु प्रमाणस्याऽसारुप्यव्यावृत्तिः सारूप्यम्, अनधिगतिव्यावृत्तिरधिगतिरिति व्यावृत्तिभेदादेकस्याऽपि प्रमाणफलव्यवस्थेति चेत् । नैवम्, स्वभावभेदमन्तरेणान्यव्यावृत्तिभेदस्याऽनुपपत्तेः । कथं च प्रमाणस्य फलस्य चाऽप्रमाणफलव्यावृत्त्याः प्रमाणफलव्यवस्थावत् प्रमाणाऽन्तरफलाऽन्तर-व्यावृत्त्याऽप्यप्रमाणत्वस्याऽफलत्वस्य च व्यवस्था न स्यात्, विजातीयादिव सजातीयादपि व्यावृत्तत्वाद् वस्तुनः। तस्मात् प्रमाणात् फलं कथञ्चिद्भिन्नमेवैष्टव्यं, साध्यसाधनभावेन प्रतीयमानत्वात् । .
ये हि साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्येते, यथा कुठारच्छिदिक्रिये इति। एवं योगाऽभिप्रेतः प्रमाणात् फलस्यैकान्तभेदोऽपि निराकर्तव्यः, तस्यैकप्रमातृतादात्म्येन प्रमाणात् कथञ्चिदभेदव्यवस्थितेः। प्रमाणतया परिणतस्यैवाऽऽत्मनः फलतया परिणतिप्रतीतेः । य: प्रमिमीते स एवोपादत्ते, परित्यज्यति, उपेक्षते चेति सर्वव्यवहारिभिरस्खलितमनुभवात् । इतरंथा स्वपरयोः प्रमाणफलव्यवस्थाविप्लव: प्रसज्यत इत्यलम् ।
अथवा पूर्वार्धमिदमन्यथा व्याख्येयम् । सौगताः किलेत्थं प्रमाणयन्ति सर्वं सत् क्षणिकम् । यतः सर्व तावद् घटादिकं वस्तु मुद्गरादिसन्निधौ नाशं गच्छद दृश्यते । तत्र येन स्वरूपेणाऽन्त्याऽवस्थायां घटादिकं विनश्यति तश्चेत्स्वरूपमुत्पन्नमात्रस्य विद्यते तदानीमुत्पादाऽनन्तरमेव तेन विनष्टव्यम्, इति व्यक्तमस्य क्षणिकत्वम् । अथेदृश एव स्वभावस्तस्य हेतृतो जातो यत्कियन्तमपि कालं स्थित्वा विनश्यति । एवं तर्हि मुद्गराऽऽदिसंनिधानेऽपि स एष एव तस्य स्वभावः इति पुनरप्येतेन तावन्तमेव कालं स्थातव्यम् । इति नैव विनश्यदिति । सोऽयम् ‘अदित्सोर्वणिजः प्रतिदिनं पत्रलिखितश्वस्तनदिनभणनन्यायः' । तस्मात् क्षणद्वयस्थायित्वेनाऽऽप्युत्पत्तौ प्रथमक्षणवद् द्वितीयेऽपि क्षणे क्षणद्वयस्थायित्वात् पुनरपरक्षणद्वयमवतिष्ठेत । एवं तृतीयेऽपि क्षणे तत्स्वभावत्वाद् नैव विनश्येदिति ।
स्यादेतत्, स्थावरमेव तत् स्वहेतोर्जातम्, परं बलेन विरोधकेन मुद्गराऽऽदिना .
१. 'स्वहेतुतः' इति ह. पुस्तके पाठः ! २. कचिद् वणिक् द्रव्यमदित्सुः पत्रद्वारा प्रत्यहमुत्तमाय श्वस्तव धनं दास्य इति बोधयति तद्वत् ।
स्याद्वादमञ्जरी
in
d
iauk
१९३)