________________
'द्विष्ठसंबन्धसंवित्तिर्नकरुपप्रवेदनात् ।
द्वयोः स्वरूपग्रहणे सति संबन्धवेदनम् ' ।।१।।
इति वचनात् ।
यदपि धर्मोत्तरेण-‘'अर्थसारूप्यमस्य प्रमाणम् । तद्वशादर्थप्रतीतिसिद्धेः' इति न्यायबिन्दुसूत्रं विवृण्वता भणितम् ' नीलनिर्भासं हि विज्ञानं, यतस्तस्माद् नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो ज्ञानमुत्पद्यते, न तद्वशात् तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुं, नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चाऽत्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः । येनैकस्मिन् वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन, तत एकस्य वस्तुनः किञ्चिद्रूपं प्रमाणं किञ्चित् प्रमाणफलं न विरुध्यते । व्यवस्थापनहेतुर्हि सारूप्यं तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम्' इत्यादि । तदप्यसारम् । एकस्य निरंशस्य ज्ञानक्षणस्य व्यवस्थाप्यव्यवस्थापकत्वलक्षणस्वभावद्वयाऽयोगात्, व्यवस्थाप्यव्यवस्थापक भावस्यापि च संबन्धत्वेन द्विष्ठत्वादेकस्मिन्नसंभवात् ।
किञ्च, अर्थसारूप्यमर्थाऽऽकारता । तच्च निश्चयरूपम्, अनिश्चयरूपं वा । निश्चयरूपं चेत्, तदेव व्यवस्थापकमस्तु, किमुभयकल्पनया । अनिश्चितं चेत्, स्वयमव्यवस्थितं कथं नीलादिसंवेदनव्यवस्थापने समर्थम् । अपि च, केयमर्थाऽऽकारता । किमर्थग्रहणपरिणामः, आहोस्विदर्थाऽऽकारधारित्वम् ? नाद्यः सिद्धसाधनात् । द्वितीयस्तु ज्ञानस्य प्रमेयाऽऽकारानुकर्णाज्जडत्वोपपत्त्यादिदोषाऽऽघ्रातः. । तन्न प्रमाणादेकान्तेन फलस्याऽभेदः साधीयान्। सर्वथा तादात्म्ये हि प्रमाणफलयोर्न व्यवस्था, तद्भावविरोधात् । न हि सारूप्यमस्य प्रमाणमधिगतिः फलमिति सर्वथा तादात्म्ये सिद्ध्यति अतिप्रसङ्गात् ।
१. न्यायबिन्दौ प्रथमपरिच्छेदे सूत्रम् १९ पृ. २५ २६ ।
२. न्यायबिन्दुप्रथमपरिच्छेदे सूत्रम् २० ।
३. न्यायबिन्दुप्रथमपरिच्छेदे २० सूत्रे स्वोपज्ञटीकायाम् ।
४. 'अतिप्रसक्तेः' इति क पुस्तके पाठः ।
११२ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐः स्याद्वादमञ्जरी