________________
न संविदद्वैतपथेऽर्थसंविद् विलूनशीर्णं सुगतेन्द्रजालम् ||१६||
बौद्धाः किल प्रमाणात् तत्फलमेकान्तेनाऽभिन्नं मन्यन्ते । तथाच तत्सिद्धान्तः" उभयत्र तदेव ज्ञानं प्रमाणफलमधिगमरूपत्वात्' । उभयत्रेति प्रत्यक्षेऽनुमाने च, तदेव ज्ञानं प्रत्यक्षाऽनुमानलक्षणं फलं, कार्यम् । कुतः ? अधिगमरूपत्वादिति परिच्छेदरुपत्वात् । तथाहि-परिच्छेदरूपमेव ज्ञानमुत्पद्यते । न च परिच्छेदादृतेऽन्यद् 'ज्ञानफलम् अभिन्नाधिकरणत्वात् । इति सर्वथा न प्रत्यक्षानुमानाभ्यां भिन्नं फलमस्तीति । एतच्च न समीचीनम् । यतो यद्यस्मादे कान्तेनाऽभिन्नं तत्तेन सहैवोत्पद्यते । यथा घटेन घटत्वम् । तैश्च प्रमाणफलयोः कार्यकारणभावोऽभ्युपगम्यते-प्रमाणं कारणं फलं कार्यमिति । स चैकान्ताऽभेदे न घटते । नहि युगपदुत्पद्यमानयोस्तयोः सव्येतर 'गोविषाणयोरिव कार्यकारणभावो युक्तः, . नियतप्राक्कालभावित्वात् कारणस्य । नियतोत्तरकाल - भावित्वात् कार्यस्य । एतदेवाह - न तुल्यकालः । फलहेतुभावः इति । फलं कार्य; हेतुः कारणम्, तयोर्भावः स्वरूपम्, कार्यकारणभावः स तुल्यकालः समानकालो न युज्यत इत्यर्थः ।
।
अथ क्षणाऽन्तरितत्वात् तयोः क्रमभावित्वं भविष्यतीत्याशङ्कयाह- हेतौ विलीने न फलस्य भावः इति हेतौ कारणे प्रमाणलक्षणे विलीने क्षणिकत्वादुत्पत्त्यनन्तरमेव निरन्वयं विनष्टे फलस्य प्रमाणकार्यस्य न भावः सत्ता, निर्मूलत्वात् । विद्यमाने हि फलहेतावस्येदं फलमिति प्रतीयते । नान्यथा, अतिप्रसङ्गात् ।
किञ्च हेतुफलभावः सम्बन्धः, स च द्विष्ठ एव स्यात् । न चाऽनयोः क्षणक्षयैकदीक्षितो भवान् सम्बन्धं क्षमते । ततः कथम् 'अयं हेतुरिदं फलम्' इति प्रतिनियता प्रतीतिः, एकस्य ग्रहणेऽप्यन्यस्याऽग्रहणे तदसंभवात् ।
१. धर्मकीर्तिप्रणीतन्यायबिन्दी परि. १ सू. १८ इत्यत्रैतदर्थकं शब्दजातम् । 'तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात्' ।
२. वामदक्षिणगोश्रृङ्गयोः ।
(स्याद्वादमञ्जरी
ॐ के ॐ ॐ ॐ ४ १११