________________
सत्त्वानां तत्र सन्निधानं तद्भागिसत्त्वधर्माऽधर्मपरिपाकं च तदप्रतिबन्धश्चेति । यत् तदीश्वरस्यैश्वर्यं कि तन्नित्यमनित्यमिति ? । यद्यनित्यं तस्य कारणं वाच्यं यस्य चाऽनित्यमेश्वर्यं तस्य कारणं भेदो भवति अणिमादेः एवमन्येषामपीत्यनेक ईश्वरः प्रसज्यत इति ? । अथाऽनेकत्वे किं बाध्यत इति ? एकस्मिन् वस्तुनि व्याहतकामयोरीश्वरयो प्रवृत्तिर्न प्राप्नोति । अथैकमितरोऽतिशेते ? योऽतिशेते स ईश्वरः नेतरः इति । अथ नित्यमैश्वर्यम् ? धर्मवैयर्थ्यं न तद्धर्माद्भवति इति नित्यमिति ब्रूमः । न च धर्मवैयर्थ्यं दोषः तस्य यो धर्म ईश्वरे नाऽसौ तत्रैश्वर्यं करोति, किन्तु प्रत्यात्मवृत्तीन् धर्माऽधर्मसन्निचयाननुगृह्णाति । न चेश्वरे धर्मोऽस्तीत्यचोद्यमेतत् । तत्स्वभावाऽनवधारणात् सन्देहः ईश्वरः किं द्रव्यमाहोस्विद् गुणादीनामन्यतम इति ? द्रव्यं बुद्धिगुणत्वात् द्रव्याऽन्तस्वत् । बुद्धिमत्वात्तर्हि आत्माऽन्तरमिति ? नाऽऽत्मान्तरं गुणभेदात्-तद्यथा गुणभेदे सति पृथिव्यादयो नाऽऽत्मानः तथा गुणभिन्न ईश्वरस्तस्मादसावपि नाऽऽत्मान्तरमिति । कः पुनरेतस्य भेदः ? । एके तावत् ब्रुवते धर्मज्ञानवैराग्यैश्वर्याण्य- तिशयवन्ति तस्मिन्निति नित्यत्वमतिशयः । एतत्तु न बुद्ध्यामहे यथा बुद्धिमत्तायामीश्वरस्य प्रमाणसद्भावो न चैवं धर्मादिनित्यत्वे प्रमाणमस्ति । न चाप्रामाणिकं प्रतिपत्तुमशक्यं, अतिशयस्तु बुद्धिनित्यत्वं गुणभेदः तत्र हि नित्या बुद्धिः सङ्ख्यादयश्च सामान्यगुणाः षड्गुण आकाशवदीश्वर इति। अथास्य बुद्धिनित्यत्वे किं प्रमाणमिति ? । नन्विदमेव- बुद्धिमत्कारणाविधिष्ठिताः परमाणवः प्रवर्तन्त इति ? । बुद्धिमत्तायामेतत् साधनं सा पुनर्नित्येति कुतः ?। प्रत्यर्थनियमाऽसम्भवात्-ये खलु प्रत्यर्थनियता युगपदनेककार्योत्पत्ति- दर्शनात् । यथा स्थावरभेदस्याऽनेकस्य युगपदुत्पाद इति स च प्रत्यर्थनियतबुद्धिभेदेष्वीश्वरस्य न युक्तः । सङ्खयापरिमाणपृथक्त्वसंयोग- विभागबुद्ध्य एव तस्य गुणाः । अथ बुद्धिमत्तयेश्वरस्य शरीरयोगमपि प्रतिपद्यते ? तेनाऽपि प्रतिपद्यमानेन शरीरादयो नित्या अनित्या वा अवश्यमेषितव्याः । यद्यनित्या धर्माऽधर्मसद्भावोऽभ्युपेयः । स्याद्वादमञ्जरी) AARAAAAAAAAAAA२२५)