________________
तत्साधनाद्यपेक्षश्च शुद्ध मशुद्धं चाऽभिसन्धिमिति । यदा करोति तदा साधनस्याऽकर्तेति चेत् ? -अथ मन्यसे यदायं साध्यं (यत) किंचिद् दृष्टं निर्वर्तयति तदा येन साधयति तस्याऽकर्ता प्रसज्यत इति । नैतदेवम् । न ब्रूमः सर्वाननयमेकस्मिन् काले करोतीति । अपि तु पर्यायेण । पर्यायकर्तृत्वे चायमदोषः यदादौ करोति तस्यासाधनोत्पत्तिरिति चेत् । अथ मन्यसे यदि शरीराऽऽदिकर्तृत्वं धर्माऽधर्माद्यपेक्षस्य । अथ यदादौ करोति कथं तत् ? आदेरनभ्युपगमाददेश्यमेतत् । अनादिः संसार इति प्रतिपादितमेतत्, धर्माऽधर्मसाफल्यं चैवम् । यदि चाऽनादिः संसारः सापेक्षश्च कर्ता, एवं प्राण्यन्तरसमवायिनां धर्माऽधर्माणां साफल्यम् । अथायमीश्वरः कुर्वाणः किमर्थं करोति ?-लोके हि ये.कर्तारो भवन्ति ते किञ्चिदुद्दिश्य प्रवर्तन्ते इदमाप्स्यामि इदं हास्यामि चेति । न पुनरीश्वरस्य हेयमस्ति दुःखाऽभावात् नोपादेयं वशित्वात् ? । क्रीडार्थमित्येके । एके तावद् ब्रुवतें क्रीडार्थमीश्वरः सृजतीति ? नन्वेतदयुक्तम् । क्रीडा हि नाम रत्यर्थं भवति विना क्रीडया रतिमविन्दताम्, न च रत्यर्थी भगवान् दुःखाऽभावादिति । दुःखिनश्च सुखोपगमार्थं क्रीडन्ति । विभूतिख्यापनार्थमित्यपरेजगतो वैश्वरूप्यं ख्यापनीयं इत्यपरे मन्यन्ते । एतदपि तागेव । नहि विभूतिख्यापनेन कश्चिदतिशयो लभ्यते न चाऽस्याऽख्यापनेन किञ्चिद्धीयत. इति । किमर्थं तर्हि करोति ? तत्स्वाभाव्यात् प्रवर्तत इत्यदुष्टम् । यथा भूम्यादीनि धारणादिक्रियां तत्स्वाभाव्यात्कुर्वन्ति तथेश्वरोऽपि तत्स्वाभाव्यात्प्रवर्तत इति प्रवृत्तिस्वभावकं तत्तत्त्वमिति।
- तत्स्वाभाव्यात् सततप्रवृत्तिः इति चेत् ?-अथ मन्यसे यदि प्रवृत्तिस्वभावकं तत्त्वं प्रवृत्तिनिवृत्ती न प्राप्नुतः न हि प्रवृत्तिस्वभावके तत्त्वे निवृत्तियुज्यत इति, क्रमेणोत्पत्तिर्न प्राप्नोति तत्त्वस्यैकरूपत्त्वात् । इदमिदानीं भवत्विदमिदानी न भवत्विति न युक्तम्-नं ह्येकरूपात् कारणात्कार्यभेदं पश्याम इति ? । नैष दोषः । बुद्धिमत्वेन विशेषणात् बुद्धिमत्तत्त्वमिति प्रतिपादितम् । बुद्धिमत्तया च विशिष्यमाणां । सापेक्षं च न सर्वदा प्रवर्तते । न सर्वमेकस्मिन्काले उत्पादयति यस्य कारणसान्निध्यं तद्भवति, यदसन्निहितकारणं तन्न भवति । न च सर्वस्य युगपत्कारणसानिध्यमस्ति, अतः सर्वस्य युगपदुत्पादो न प्रसक्तः । स खलु प्रवर्तमानो धर्माऽधर्मयोः परिपाककालमपेक्षते कारणाऽन्तरोत्पादं तद्भागिनां च (२२४/AAAAAAAAAAAA स्याद्वादमञ्जरी