________________
क्रियाऽनावेशादकारणमिति चेत् ? अथ मन्यसे ये खलु कर्तारो भवन्ति ते क्रियाविशिष्टाः कुलालाऽऽदय इति । क्रियारहितश्चेश्वरस्तस्मादकारणमिति ? न विकल्पाऽनुपपत्तेः । ईश्वरो निष्क्रिय इति कां क्रियां अधिकृत्योच्यते ? द्वयी हि नः क्रियाः उत्क्षेपणादिका चाऽऽख्यातशब्दवाच्या च । यद्याख्यातशब्दवाच्यामधिकृत्योच्यते ? तदाऽसिद्धो हेतुः स्वातन्त्र्याऽभ्युपगमात् । स्वातन्त्र्यं हि भगवति नित्यमस्ति किं पुनः स्वातन्त्र्यम् ? अन्यकारकाऽप्रयोज्यत्वमितरकारकप्रयोक्तृत्वं च तदुक्तं कारकाणि वर्णयद्भिरिति । अथोत्क्षेपणादिकामधिकृत्योच्यते निष्क्रिय इति ? तदाऽनेकान्तः क्रियावच्च कारणं दृष्टं निष्क्रियं चेतिकदाचिद्द्रव्याणि उपरतक्रियाणि द्रव्यमारभन्ते, संयोगात् निवृत्ते कर्मणि संयोगोपकरणानि द्रव्याणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः । यदा च युगपद्बहूनि द्रव्याणि संहन्यन्ते तदाऽसाधारणकार्यव्यावृत्तेभ्यः संयोगेभ्य एकमेव द्रव्यमुत्पद्यते । एकावयविभागे तु द्रव्यनिवृत्तौ शेषाणि द्रव्याऽन्तराणि द्रव्यमारभन्त इति निष्क्रियाणामारम्भः। कानिचित्पुनः क्रियावन्त्यारभन्ते यदाऽन्यतरकर्मजात् संयोगान्निवृत्ते कर्मणि इतरस्मिन् द्रव्ये कर्मनिवृत्तिसमकालमेव द्रव्यमुत्पद्यते । तदा क्रियावता द्रव्येणाऽऽरम्भात् क्रियावंतामारम्भः विरोधश्चोत्क्षेपणादिकायाः क्रियाया अनभ्युपगमादिति ।
न कारणमीश्वरः विकल्पोऽनुपपत्तेः - कर्ता चेद् ईश्वरः किं सापेक्षः करोति उत निरपेक्ष इति ? किं चातः ? यदि सापेक्षः ? येन करोति तस्याऽकर्ता, एवमन्यत्राऽपि प्रसङ्गः । तदपि साधनं येनं करोति तस्याऽकर्तेति । अथाऽयं किञ्चिदनपेक्ष्य करोति ? तद्वदन्यत्राऽपि प्रसङ्गः । अथाऽयं सर्वमनपेक्ष्य करोति एवमपि पुरुषकर्माऽफलं भवेत्, अनिर्मोक्षश्च प्रसज्येत । यश्चाकर्मनिमित्ते सर्गे दोषः । स इहापि प्रसज्यत इति ? निरपेक्षकर्तृत्वस्याऽनभ्युपगमात् धर्माऽधर्मविफलत्वाऽऽदिदोषो नास्ति । न चाऽकर्मनिमित्ते सर्गे दोष इति । येन करोति तस्याकर्तेति चेत् ? नाऽनेकान्तात् नायमेकान्तोऽस्ति यो येन करोति स तन्न करोतीति । यथाऽनेकशिल्पपर्यवदातः पुरुषः करणाऽन्तरोपादानो वास्यादि · करोति । वास्याद्युपादानो दण्डादि करोति, तदुपादानो घटादि, न च पर्यायकर्तृत्वे सति अकर्तृत्वं, तथेश्वरोऽपि धर्माधर्मोपादानः शरीरसुखदुःखाऽऽदि, आत्ममन:संयोग- शुद्धाऽशुद्धाऽभिसन्धिसाधनश्च धर्माधर्मो, सुखदुःखस्मृत्यपेक्षः
स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐॐॐॐॐॐॐ २२३