________________
ये परमाणून् पुरुषकर्माऽधिष्ठितान् जगतः कारणत्वेन वर्णयन्ति तान् प्रतीदमुच्यते परमाणवः प्रवर्तन्त इति सततं प्रवृत्त्या भवितव्यम् । अथ कालविशेषाऽपेक्षाः प्रवर्तन्ते ? परमाणुभिः कालो व्याख्यातः यथा परमाणवो बुद्धिमन्तमधिष्ठातारमपेक्षन्ते तथा कालोऽपीति । न हि तत्राऽचेतनत्वं निवर्तत इति । क्षीराऽऽदिवद्धेतनस्याऽपि प्रवृत्तिरिति चेद् ? यथा अपत्यभरणार्थं क्षीरादेरचेतनस्यापि प्रवृत्तिरेवं परमाणवोऽप्यचेतनाः पुरुषार्थ प्रवर्तिष्यन्त इति ? । तत्तु युक्तम्, साध्यसमत्वात्यथैव परमाणवः स्वतन्त्राः प्रवर्तन्त इति साध्यं तथा क्षीराऽऽद्यचेतनं स्वतन्त्रं प्रवर्तत इति । यदि क्षीराऽऽदि स्वतन्त्रं प्रवर्तेत मृतेष्वपि प्रवर्तेत, न तु प्रवर्तते, अतोऽवगम्यते बुद्धिमत्कारणाऽधिष्ठितं तदपि । न चायं हेतुः तस्मान्निवर्तते एवं यावद्यावदचेतनं प्रवर्तते (तत्) सर्वं तत् चेतनाऽधिष्ठितमिति । अयमपरो हेतुः बुद्धिमत्कारणाऽधिष्ठितं महाभूताऽऽदि व्यक्तं (मिति) सुखदुःखाऽऽदिनिमित्तं भवति रूपाऽऽदिमत्वात् तुर्याऽऽदिवदिति । धर्माधर्मौ बुद्धिमत्कारणाऽधिष्ठतौ पुरुषस्योपभोगं कुरुतः करणत्वाद्वास्यादिवदिति । आत्मैवाऽधिष्ठाता धर्माधर्मयोर्भविष्यतीति चेत् ? यस्य तौ धर्माधर्मौ स एवाऽधिष्ठाता भविष्यतीति न युक्तम् ? प्राक् कार्यकरणोत्पत्तेः तदसम्भवात्यावत् कार्यकारणसंघातो नोपजायते पुरुषस्य तावदयमज्ञः उपसन्धाताऽपि उपलभ्यानपि तावद्रूपादीनोपलभते कुतोऽनुपलभ्य धर्माधर्मावुपलप्स्यत इति । यदि पुरुषः स्वतन्त्रः प्रवर्तत्ते न दुःखं कुर्यात् । न हि कश्चिदात्मनो दुःखमिच्छतीति । यश्चाऽऽत्मनो (ऽङ्गो). पघातं शिरश्छेदादि वा करोति तद्वैकल्ये प्रायणे वा हितबुद्धिः प्रवर्तते इति । यदि पुनर्धर्माऽधर्माभ्यामेवाऽधिष्ठिताः परमाणवः प्रवर्तेरन् ? न युक्तमेतदचेतनत्वात् न हि किञ्चिदचेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । अभ्युपगम्यापि च धर्माऽधर्मयोः परमाणुप्रवृत्तिसामर्थ्यं ? न करणस्य क्रियानिर्वृत्ताबसामर्थ्यात्-न नहि करणं केवलं क्रियां निवर्तयदुपलभ्यते । अथ परमाण्वपेक्षाभ्यां धर्माधर्माभ्यां क्रियते ? तदपि न युक्तमदृष्टत्वात् । नहि कर्मकारणाभ्यां क्रियां जन्यमानां क्वचिदपि पश्याम इति । आत्मा कर्ता भविष्यतीति ? उक्तमेतदज्ञत्वादिति । अकारणोत्पत्तिर्भविष्यतीति ? न युक्तमदृष्टत्वादिति । न चाऽन्या गतिरस्ति, तस्माद् बुद्धिमत्कारणाऽधिष्ठिताः परमाणवः कर्माणि च प्रवर्तन्त इति ।
२२२
स्याद्वादमञ्जरी