________________
तत्त्वसिद्धं तस्मादयुक्तमिति ? न, अत एव तदुत्पत्तेः इति-येनैव न्यायेन ईश्वरस्य कारणत्वं सिध्यति तेनैवाऽस्तित्वमिति, न ह्यविद्यमानं कारणमिति । कः पुनरीश्वरस्य कारणत्वे न्यायः ? अयं न्यायोऽभिधीयते प्रधानपरमाणुकर्माणि प्राक्प्रवृत्तेबुद्धिमत्कारणाऽधिष्ठितानि प्रवर्तन्ते अचेतनत्वात् वास्याऽऽदिवदिति यथा वास्याऽऽदि बुद्धिमता तक्ष्णा अधिष्ठितमचेतनत्वात् प्रवर्तते । तथा प्रधानपरमाणुकर्माणि अचेतनानि प्रवर्तन्ते । तस्मात् तान्यपि बुद्धिमत्कारणाऽधिष्ठितानीति । तत्र प्रधानकारणिकास्तावत् पुरुषार्थमधिष्ठायकं प्रधानस्य वर्णयन्तिपुरुषार्थेन प्रयुक्तं प्रधानं प्रवर्तते । पुरुषार्थश्च द्वेधा भवति शब्दायपलब्धिर्गुणपुरुषाऽन्तरदर्शनं चेति तदुभयं प्रधानप्रवृत्तेविना. न भवतीति ? न, प्राक्प्रवृत्तेस्तदभावाद्यावत्प्रधानं महदादिभावेन न परिणमते तावन्न शब्दाधुपलब्धिरस्ति न गुणपुरुषाऽन्तरोपलब्धिरिति हेत्वभावात् प्रधानप्रवृत्तियुक्ता । अथाऽस्ति, नाऽसदात्मानं लभते न सन्निरुध्यत इति ? एवं च सति विद्यमानः पुरुषार्थः प्रधानं प्रवर्तयतीति न पुरुषार्था (य) प्रधानस्य प्रवृत्तिः न हि लोके यद्यस्य भवति स तदर्थं पुनर्यतत इति । सततं च प्रवृत्तिः प्राप्नीति कारणस्य सन्निहितत्वादिति- पुरुषार्थः प्रवृत्तेः कारणमिति पुरुषार्थस्य नित्यत्वात् सततं प्रवृत्त्या भवितव्यमिति । अथ विद्यमानोऽपि न प्रवर्तयति? न तर्हि पुरुषार्थः कारणमिति यस्याऽभावात् प्रधानं प्रवर्तते यस्य न च भावात् प्रवर्तते तत्कारणमिति । अथ विद्यमानः प्रतिबन्धान प्रवर्तयति ? प्रतिबन्धापगमस्याऽशक्यत्वात् सततमप्रवृत्तिः यत्तत्र प्रतिबन्धकारणं पुरुषाऽर्थस्य तस्यापगमः कर्तुं शक्यः । न सदाऽऽत्मानं जहातीति प्रतिबन्धकस्य नित्यत्वानित्यमप्रवृत्त्या भवितव्यम् । यदा भवन्तः सत्त्वरजस्तमसां साम्याऽवस्था प्रकृतिं वर्णयन्ति सा कुतो निवर्तत इति वक्तव्यम् । न चाऽनिवृत्तायां साम्याऽवस्थायां वैषम्येण शक्यं भवितुम् । अथाऽङ्गाङ्गिभावस्या- ऽनियमाद्वैषम्यं भवतीति ? अत्राऽपि भवन्तं पर्यनुयुक्ष्महे । कथं साम्येनाऽवस्थितमधिकं हीनं च भवति ? नाऽपूर्वोपचये विद्यते न पूर्वहानमस्तीति । यांश्च शब्दादीन् प्रागनुपलब्धस्वरूपान् पुरुषमुपलभते बुद्धिरुपलम्भयति ते किमुपजातविशेषा उताऽनुपजातविशेषा इति ? यधुपजातविशेषा उपलभ्यन्त इति ? व्याहतं भवति नाऽसदात्मनं लभत इति । अथाऽनुपजातविशेषा एवोपलभ्यन्ते ? तथाप्यनिवृत्तो व्याघातः प्रधानं पुरुषार्थः प्रवर्तयतीति । सोऽयं प्रधानवादो यावद्यावद्विचार्यते तावत्तावत्प्रमाणवृत्तं बाधत इति । स्याद्वादमञ्जरी
२२१)