________________
पुरुषकर्म ईश्वरोऽनुगृह्णाति । कोऽनुग्रहाऽर्थः ? यद्यथाभूतं यस्य च यदा विपाककाल: तत्तथा तदा विनियुक्त इति । यः पुनरीश्वरं कर्माऽनपेक्षं कारणत्वेन प्रतिपद्यते तस्याऽनिर्मोक्षत्वादिदोषः । सापेक्षे त्वीश्वरे यथोक्तो न दोषः । शेष भाष्ये । (वात्स्यायनभाष्यम्- 'पुरुषकारमीश्वरोऽनुगृह्णाति फलाय पुरुषस्य यतमानस्येश्वरः फलं सम्पादयतीति । यदा न सम्पादयति तदा पुरुषकर्माऽफलं भवतीति । तस्मादीश्वरकारितत्वादहेतुः पुरुषकर्माऽभावे फलाऽनिष्पत्तेरिति । गुणविशिष्टमात्मान्तरमीश्वरः। तस्याऽऽत्मकल्पात्कल्पाऽन्तराऽनुपपत्तिः । अधर्ममिथ्याज्ञानप्रमादहान्या धर्मज्ञानसमाधिसम्पदा च विशिष्टमात्माऽन्तरमीश्वरः । तस्य च धर्मसमाधिफलमणिमाद्यष्टविधमैश्वर्यम् । सङ्कल्पाऽविधायी चाऽस्य धर्मः प्रत्यात्मवृत्तीन्धर्माऽधर्मसञ्चयान्पृथिव्यादीनि च भूतानि प्रवर्तयति । एवं च स्वकृताऽभ्यागमस्याऽलोपेन निर्माणप्राकाम्यमीश्वरस्य स्वकृतकर्मफलं वेदितव्यम् । आत्मकल्पश्चाऽयं यथा पिताऽपत्यांनां तथा पितृभूत ईश्वरो भूतानाम् । न चात्मकल्पादन्यः कल्पः सम्भवति । न तावदस्य बुद्धिं विना कश्चिद्धर्मो लिङ्गभूतः शक्य उपपादयितुम्। आगमाञ्च द्रष्टा, बोद्धा, सर्वज्ञाता, ईश्वर इति । बुद्ध्याऽऽदिभिश्चाऽऽत्मलिङ्गैर्निरूपाऽऽख्यामीश्वरं प्रत्यक्षाऽनुमानाऽऽगमविषयाऽतीतं कः शक्त उपपादयितुम् । स्वकृताऽभ्यागमलोपेन च प्रवर्तमानस्यास्य यदुक्तं प्रतिषेधजातकर्मनिमित्ते शरीरसगै तत्सर्वं प्रसज्यत इति ।।२१।।) (वार्तिकं पूर्वतोऽनुवृत्तम्) तत्कारित्वादित्येवं ब्रुवता निमित्तकारणमीश्वरः इत्युपगतं भवति । यञ्च निर्मिततदितरयोःसमवायिकारणाऽसमवायिकारणयोरनुग्राहकम्, यथा तुर्यादितन्तूनां तत्संयोगानां चेति । ईश्वरश्चेज्जगतो निमित्तं जगतःसाक्षादुपादानकारणं किम् । उक्तं पृथिव्यादि । परमसूक्ष्म परमाणुसज्ज्ञितं द्रव्य (व्यक्त) मिति । व्यक्तकारणोऽभ्युपगमे तु सति निमित्तविशेषविप्रतिपत्तौ ईश्वरप्रक्रियायस्मानिमित्तकारणे विप्रतिपद्यन्ते । केचित् कालं केचिदीश्वरं केचित्प्रकृतिमिति तदेवं निमित्तविशेषविप्रतिपत्तौ किं न्याय्यमिति । ईश्वर इति न्याय्यं, तत्र हि प्रमाणानि अविघातेन प्रवर्तन्त इति । अस्तित्वासिद्धिरिति चेत् ? अथ मन्यसे सिद्ध ईश्वरस्याऽस्तित्वे कारणान्तरनिराकरणं निमित्तकारणाऽभावश्च साध्येत, (२२० i rintsassistianisha स्याद्वादमञ्जरी