________________
कत्वम् । साध्याऽभावनिश्चये हेतुसदसत्त्वसन्देहे सन्दिग्धाऽनैकान्तिकत्वस्य दोषत्वात्, अन्यथा सकलाऽनुमानोच्छेदप्रसङ्गात् । न च पक्षाऽतिरिक्ते दोषोऽयमिति वाच्यं राजाऽऽज्ञापत्तेः । नहि दोषस्याऽयं महिमा यत् पक्षं नाकामति । तस्मादङ्कुरस्फुरणदशायां निश्चितव्याप्तिकेन हेतुना तत्र साध्यसिद्धेरप्रत्यूहत्वात् । क्व सन्दिग्धाऽनैकान्तिकता तदस्फुरणदशायां तु सुतरामिति संक्षेपः' ।।१९।।
एवमेव नैयायिकमतम्-गौतमसूत्रवात्स्यायनभाष्ये न्यायवार्तिके अ. ४-१-१९, ४-१-२०, ४-१-२१ । . . 'अपर इदानीमाह''ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् ।।४-१-१९।। ..
'ईश्वरः कारणं पुरुषकर्माफल्यदर्शनात् । पुरुषोऽयं समीहमानो नाऽवश्यं समीहाफलमाप्नोति तेनाऽवगम्यते 'पराधीनं पुरुषस्य कर्मफलाऽऽराधनमिति । निरपेक्षश्चेत् पुरुषः कर्मफलभोगे समर्थः स्यात् न कस्यचिदफला क्रिया भवेत् । न कश्चिदुःखं कुर्यादिति । उभयं च दृष्टं तस्मादीश्वर: कारणमिति ।।१९।।
न पुरुषकर्माऽभावे फलाऽनिष्पत्तेः ।।४-१-२०॥
न पुरुषकर्माभावे फलानिष्पत्तेरिति’ । ईश्वरश्चेत् कारणं स्यात् पुरुषकर्माऽन्तरेणापि सुखदुःखोपभोगौ स्याताम् । ततश्च कर्मलोपोऽनिर्मोक्षश्च । ईश्वरस्यैकरूपत्वादेकरूपा क्रियेति । अथेश्वरः कारणभेदाऽनुविधानेन कार्य निवर्तयति यदपेक्षते तन्न करोतीति प्राप्तम् । नहि कुलालो दण्डाऽऽदि करोति । एवं कर्मसापेक्षश्चेदीश्वरो जगदुत्पत्तिकारणं स्यात् कर्मणीश्वरोऽनीश्वरः स्यात् ।।२०।।
तत्कारितत्वादहेतुः ।।४-१-२१।।
तत्कारितत्वादहेतुः । न ब्रूमः कर्माद्यनपेक्ष ईश्वरः कारणमिति । अपि तु स्याद्वादमञ्जरी Amirik
a ari २९९)