________________
कणादसूत्रे (अ. २-१, १८, १९.) उपकारसहिते । 'संज्ञा कर्म त्वस्मद्विशिष्टानां लिङ्गम् ।।२-१-१८ ।।
तुशब्दः स्पर्शाऽऽदिलिङ्गव्यवच्छेदाऽर्थः । संज्ञा-नाम । कर्म-कार्यं क्षित्यादि । तदुभयमस्मद्विशिष्टानाम् ईश्वर- महर्षीणां सत्त्वेऽपि लिङ्गम् ।।१८।।
कथमेतदित्यत आह
प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः ।। २-१-१९ ।।
अत्राऽपि संज्ञा च कर्म चेति समाहारद्वन्द्वादेकवद्भावः संज्ञाकर्तुर्जगत्कर्तुश्चाऽभेदसूचनार्थः । तथाहि यस्य स्वर्गाऽपूर्वादयः प्रत्यक्षा स एव तत्र स्वर्गापूर्वाऽऽदिसंज्ञाः कर्तुमीष्टे प्रत्यक्षे चैत्रमैत्राऽऽदिपिण्डे पित्रादेश्चैत्रमैत्राऽऽदिसंज्ञानिवेशनवत् । एवञ्च घटपटाऽऽदिसंज्ञानिवेशनमपि ईश्वरसङ्केताऽऽधीनमेव । यः शब्दो यत्रेश्वरेण संकेतितः स तत्र साधुः । यथा या काचिदौषधिर्नकुलदंष्ट्राग्रस्पृष्टा सा सर्वाऽपि सर्पविषं हन्तीत्येतादृशी संज्ञा । अस्मदादिविशिष्टानां लिङ्गमनुमापकं, याऽपि मैत्रादिसंज्ञा पित्रा पुत्रे क्रियते सापि 'द्वादशेऽहनि पिता नाम कुर्यात्' इत्यादिविधिना नूनमीश्वरप्रयुक्तैव । तथा च सिद्धं संज्ञाया ईश्वरलिङ्गत्वम् । एवं कर्माऽपि । कार्यमपीश्वरे लिङ्गम् । तथाहि क्षित्यादिकं संकर्तृकं कार्यत्वात् घटवदिति। अत्र यद्यपि शरीराऽजन्यं जन्यं वा जन्यप्रयत्नाजन्यं जन्यं वा सकर्तृकत्वासकर्तृकत्वेन विवादाऽध्यासितं वा सन्दिह्यमानकर्तृकत्वं वा क्षित्यादित्वेन न विवक्षितम् । अदृष्टद्वारा क्षित्यादेरपि जन्यप्रयत्नजन्यत्वात् । विवादसन्देहयोश्चाऽतिप्रसक्तत्वेन पक्षताऽनवच्छेदकत्वात् । किञ्च सकर्तृकत्वमपि यदि कृतिमज्जन्यत्वं तदाऽस्मदादिना सिद्धसाधनम् । अस्मदादिकृतेरप्यदृष्टद्वारा क्षित्यादिजनकत्वात्, उपादानगोचरकृतिमज्जन्यत्वेऽपि तथाऽस्मदादिकृतेरपि किञ्चिदुपादानगोचरत्वात्, कार्यत्वमपि यदि प्रागभावप्रतियोगित्वं तदा ध्वंसे व्यभिचार इति । तथापि क्षिति: सकर्तृका कार्यत्वात् । अत्र च सकर्तृकत्वमदृष्टाद्वारककृतिमज्जन्यत्वं कार्यत्वं च प्रागभावाऽवच्छिन्नसत्ताप्रतियोगित्वम् । न चाङ्कुराऽऽदौ सन्दिग्धाऽनैकान्ति(२१८
स्याद्वादमञ्जरी