________________
न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वात् अन्यतरकर्माऽऽदिनिमित्ताऽसम्भावाद् विभागाऽन्तत्वाऽदर्शनादधिकरणाऽधिकर्तव्ययोरेव भावादिति ।। स च द्रव्यादिभ्यः पदार्थाऽन्तरं भाववल्लक्षणभेदात् । यथा भावस्य द्रव्यत्वाऽऽदीनां स्वाऽऽधारेषु आत्माऽनुरूपप्रत्ययकर्तृत्वात्, स्वाश्रयाऽऽदिभ्यः परस्परतश्चाऽऽर्थान्तरभावः तथा समवायस्याऽपि पञ्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थाऽन्तरत्वमिति । न च संयोगवनानात्वं भाववल्लिङ्गविशेषाद् विशेषलिङ्गाभावाञ्च तस्माद्भाववत्सर्वत्रैकः समवाय इति ।।
ननु यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति, न आधाराऽऽधेयनियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः तथाप्याधाराऽऽधेयनियमोऽस्ति कथम् ? द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमिति । एवमादि कस्मात् ? अन्वयव्यतिरेकदर्शनात् । इहेति समवायनिमित्तस्य ज्ञानस्याऽन्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वाऽऽदिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायतें । यथा कुण्डदनोः संयोगैकत्वे भवत्याश्रयाऽऽश्रयिभावनियमः। तथा द्रव्यत्वादीनामपि समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराऽऽधेयनियम इति ।। .
सम्बन्धनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात् । यथा प्रमाणतः कारणाऽनुपलब्धेनित्यो भाव इत्युक्तम् । तथा समवायोऽपीति । न ह्यस्य किञ्चित्कारणं प्रमाणत उपलभ्यत इति । कया पुनर्वृत्त्या द्रव्याऽऽदिषु समवायो वर्तते । न संयोगः सम्भवति तस्य गुणत्वेन द्रव्याऽऽश्रितत्वात् । नापि समवायस्तस्यैकत्वात् न चान्या वृत्तिरस्तीति । न तादात्म्यात् ! यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नाऽन्यः सत्तायोगोऽस्ति । एवमविभागिनो वृत्त्यात्मकस्य समवायस्य नाऽन्या वृत्तिरस्ति तस्मात् स्वाऽऽत्मवृत्तिः, अत एवातीन्द्रियः सत्तादीनामेव प्रत्यक्षेषु वृत्त्यभावात् स्वाऽऽत्मगतसंवेदनाऽभावाञ्च । तस्मादिहबुद्ध्यनुमेयः समवाय इति' ।।
श्लोः ६ स्याद्वादमञ्जर्या च ईश्वरकर्तृत्वादि खण्ड्यते । तदर्थं तद्विषयकं वैशेषिकमतं प्रदर्श्यतेस्याद्वादमञ्जरी) AAAAAAAAAAAAAAA२९७