________________
तदभ्युपगमे च तत्तन्त्रत्वादीश्वरो नेश्वरः स्यात् । अथ नित्यान् शरीरादीन् कल्पयसि ? एवमपि दृष्टविपरीतं कल्पितं भवति दृष्टविपर्ययं प्रतिपद्यमानेन बुद्धनित्यत्वं प्रतिपत्तव्यम् । अथ सन्तानवर्तिनीमनेकां बुद्धिमीश्वरे प्रतिपद्यसे ? एवमपि न युगपदुत्पादः स्थावरादीनां प्राप्नोति । अथ (ताः) सन्तानवर्तिन्यः सर्वार्थाः बुद्धयो भवन्ति ? एवमपि दृष्टविपरीतं कल्पितं भवति । एवं च कल्पयता बुद्धिनित्यत्वमेव प्रतिपत्तव्यम् । एतावचैतत्स्यात् नित्या वा सन्तानवर्तिनी (वा सन्तावर्तिनी) न युक्ता । यदि गुणभेदानेदः यदभिन्नगुणं तदेकं प्राप्नोति यथा दिक्कालाविति ? नानेकान्तात्-गुणभेदानानात्वं ब्रूमः न पुनर्गुणाऽभेदादेकत्वमितितथाहि अभिन्नगुणानां घटादीनां नानात्वमिति, दिक्कालयोर्गुणा- ऽभेदेऽपि कार्यभेदानानात्वमिति । न च बुद्धिमत्तया विनेश्वरस्य जगदुत्पादो घटत इति । सा च बुद्धिः सर्वार्थाऽतीताऽनागतवर्तमानविषया प्रत्यक्षा नाऽऽनुमानिकीन तत्राऽनुमानं नागम इति । ज्ञाननित्यत्वाञ्च न संस्कार:-नित्यं विज्ञानमीश्वरस्येति न तत्र संस्कारो विद्यत इति संस्काराभावाद् बुद्धिनित्यत्वाञ्च न स्मृतिः, स्मृत्यभावाञ्च नाऽनुमानं, न दुःखधर्मस्याऽभावात्, अत एव न वैराग्यमिति दुःखाऽभावान विरज्यत इति । अत एव न द्वेषो दुःखाऽभावादिति । इच्छा तु विद्यतेऽक्लिष्टाव्याहता सर्वार्थेषु यथा बुद्धिरिति ।
अथ किमयं बद्धो मुक्त इति ? । न बद्धो दुःखाऽभावादेव । अबद्धत्वान्न मुक्त इतिबन्धवान् मुच्यत इति, न च भगवति बन्धनमस्तीति अतो न मुक्त इति । आत्माऽन्तराणामसम्बन्धादधिष्टातृत्वमनुपपन्नमिति चेत् ? अथ मन्यसेऽर्थान्तरसमवायिनो ये धर्माऽधर्मास्तें न साक्षादीश्वरेण सम्बद्ध्यन्ते, न पारम्पर्येण, न चाऽसम्बद्धमधिष्ठातुं शक्यते । न चाऽनधिष्ठितयोर्धर्माधर्मयोः प्रवृत्तिर्युक्तेति ? । तञ्च न, अजसम्बन्धोपपत्तेः- अजः सम्बन्धः आत्माऽन्तराणामित्येक इच्छन्ति न चैतदिह प्रतिषिध्यत इति अप्रतिषेधादुपात्तः स इति । ते त्वजं सम्बन्धं प्रमाणतः प्रतिपादयन्ति व्यापकैराकाशादिभिः सम्बद्ध ईश्वरः मूर्तिद्रव्यसम्बन्धित्वात् घटवदितियथा घटाऽऽदि मूर्तिमता घटादिना सम्बन्धित्वेन व्यापकैराकाशाऽऽदिभिः (२२६)SAAMANA himirsinha स्याद्वादमञ्जरी)