________________
।
सम्बद्ध्यते तथेश्वरोऽपि मूर्तिमत्सम्बन्धीति तस्मादयमपि व्यापकैराकाशाऽदिभिः सम्बद्ध्यत इति । स पुनरात्मेश्वरसम्बन्धः किं व्यापकोऽव्यापको वा इति । अर्थाऽभावादव्याकरणीयः प्रश्नः । आत्मेश्वरसम्बन्धोऽस्तीत्येतदेव शक्यते वक्तुम् । स पुनरीश्वराऽऽत्मानौ व्याप्नोति न व्याप्नोतीति न व्याक्रियते । येऽप्यजं संयोगोपपत्तेरस्ति सम्बन्धः यानि प्रत्यात्ममनांसि सर्वाणीश्वरसंबद्धानीत्यतः सम्बद्धसम्बन्धोपपत्ते- रात्मान्तराण्यधितिष्ठिति यथाऽत्महस्तसंयोगप्रयत्नाभ्यां हस्ते कर्म भवति उत्पन्नकर्मको हस्तः सन्दंशादिना सम्बद्ध्यते तत्सम्बन्धादयःपिण्डाद्यधितिष्टति । यदि तर्हि सर्गादावीश्वरस्य कारणत्वेऽयं न्यायोऽभिहितः इदानीमीश्वरो न कारणमिति प्राप्तम् ? इदानीमपि स एव न्यायः- मृतशरीरिणां यो धर्माऽधर्मो तौ बुद्धिमत्कारणाऽधिष्ठिताविति समानों न्यायः । बुद्धिमत्कारणाधिष्ठितानि स्वासु स्वासु धारणादिक्रियासु महाभूतानि वाय्यन्तानि प्रवर्तन्ते अचेतनत्वाद्वास्यादिवत्। एवं कार्यत्वात् तृणादीनि पक्षीकृत्य दर्शनस्पर्शनविषयत्वादितिं वक्तव्यम् । एवं यत्र
विप्रतिपत्तिः कार्यत्वं च तत्तदनेनैव न्यायेनानेन दृष्टान्तेन वास्यादिना पक्षयित्वा साधयितव्यम् । आगमा- आगमादपि श्रूयते ईश्वरः कारणम्
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ।। यदा स देवो जागर्ति तदेदं चेष्टते जगत् ।
यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ।। इति ईश्वरप्रकरणम् ।'
श्लो. ८ स्याद्वादमञ्जर्यां सत्तायाः खण्डनं तदर्थं सत्ताप्रतिपादकानि कणादसूत्राणि ( १-२-७ मारभ्य ११ पर्यन्तम् १-२ - १७ च) प्रशस्तपादभाष्यं च ।
'सत्तासामान्यमित्यत्र बहूनां विप्रतिपत्तिरतस्तत्र प्रमाणमाहसदिति यतो द्रव्यगुणकर्मसु सा सत्ता ।। १-२-७।
इतिकारेण प्रत्ययव्यवहारयोः प्रकारमुपदिशति । तथा च द्रव्याऽऽदिषु त्रिषु सत्सदिति - प्रकारको यतः प्रत्ययः सदिदं सदिदमित्याकारकः शब्दप्रयोगो वा यदधीनः सा सत्ता ।।७।।
स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ४ २२७