________________
व्यासार्थस्त्वयम्-साङ्ख्यमते किल दुःखत्रयाऽभिहतस्य पुरुषस्य तदपघातहेतुतत्त्वजिज्ञासा उत्पद्यते । आध्यात्मिकमाधिदैविकमाधिभौतिकं चेति दुःखत्रयम्। तत्राऽऽध्यात्मिकं द्विविधम्-शारीरं मानसं च । शारीरं-वातपित्तश्लेष्मणां वैषम्यनिमित्तम् । मानसं कामक्रोधलोभ- मोहेाविषयाऽदर्शननिबन्धनम् । सर्वं चैतदान्तरोपायसाध्यत्वादाध्यात्मिकं चेति । तत्राऽऽधिभौतिकं मानुषपशुपक्षिमृगसरीसृपस्थावरनिमित्तम् । आधिदैविक-यक्षराक्षसग्रहाद्यावेशहेतुकम् । अनेन दुःखत्रयेण रजःपरिणामभेदेन बुद्धिवर्तिना चेतनाशक्तेः प्रतिकूलतया, अभिसंबन्धो-अभिघातः ।
___ तत्त्वानि पञ्चविंशतिः । तद्यथा-अव्यक्तम्-एकम् । महदहङ्कारपञ्चतन्मात्रैकादशेन्द्रियपञ्चमहाभूतभेदात् त्रयोविंशतिविधं व्यक्तम् । पुरुषश्च चिद्रूप इति । तथा च ईश्वरकृष्णः
'मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः' ।।१।।
प्रीत्यप्रीतिविषादात्मकानां लाघवोपष्टम्भगौरवधर्माणां परस्परोपकारिणां त्रयाणां गुणानां सत्त्वरजस्तमसां साम्याऽवस्था प्रकृतिः । प्रधानमव्यक्तमित्यनन्तरम् । तञ्च-अनादिमध्यान्तमनवयवं साधारणशब्दमस्पर्शमरूपमगन्धमव्ययम् । प्रधानाद्बुद्धिर्महदित्यपरपर्याया उत्पद्यते । योऽयमध्यवसायो गवादिषु प्रतिपत्तिः-एवमेतद् नान्यथा, गौरेवायं नावः, स्थाणुरेष नाऽयं पुरुष इत्येषा बुद्धिः । तस्यास्त्वष्टौ रुपाणि-धर्मज्ञानवैराग्यैश्वर्यरूपाणि चत्वारि सात्त्विकानि । अधर्माऽऽदीनि तु तत्प्रतिपक्षभूतानि चत्वारि तामसानि ।
बुद्धेः अहङ्कारः । स च-अभिमानात्मकः, अहं शब्देऽहं स्पर्शेऽहं रूपेऽहं गन्धेऽहं रसेऽहं स्वामी, अहमीश्वरः, असौ मया हतः, ससत्त्वोऽहममुं हनिष्यामी
१. ईश्वरकृष्णकृतसांख्यकारिका ३ । . २. अनर्थान्तरं-पर्यायः ।
(१०४) didihindi
स्याद्वादमञ्जरी .