________________
त्यादिप्रत्ययरूपः । तस्मात्-पञ्च तन्मात्राणि शब्दतन्मात्रादीनि अविशेषरूपाणि सूक्ष्मपर्यायवाच्यानि । शब्दतन्मात्राद् हि शब्द एवोपलभ्यते, न पुनरुदात्तानुदात्तस्वरितकम्पितषड्जाऽऽदिभेदाः । षड्जादयः-शब्दविशेषादुपलभ्यन्ते । एवं स्पर्शरूपरसगन्धतन्मात्रेष्वपि योजनीयमिति। तत एव चाहङ्काराद् एकादशेन्द्रियाणि च । तत्र चक्षुः, श्रोत्रं, घ्राणं, रसनं त्वगिति पञ्च बुद्धीन्द्रियाणी । वाक्पाणिपादपायूपस्थाः पञ्च कमेन्द्रियाणि । एकादशं मन इति । .
पञ्चतन्मात्रेभ्यश्च पञ्चमहाभूतान्युत्पद्यन्ते । शब्दतन्मात्रादाकाशं शब्दगुणम् । शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः । शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्द स्पर्शगुणरूपम् । शब्दस्पर्शरूपतन्मात्रसहिताद् रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः। शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रात् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इति । पुरुषस्तु'अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । .. अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने' ।।१।। इति ।
अन्धपङ्गुवत् प्रकृतिपुरुषयोः संयोगः । चिच्छक्तिश्च विषयपरिच्छेदशून्या यत इन्द्रियद्वारेण सुखदु:खादयो विषया बुद्धौ प्रतिसंक्रामन्ति । बुद्धिश्चोभयमुखदर्पणाऽऽकारा । ततस्तस्यां चैतन्यशक्तिः प्रतिबिम्बते । ततः सुख्यहं दुःख्यहमित्युपचारः । आत्मा हि स्वं बुद्धरव्यतिरिक्तमभिमन्यते । आह च पतञ्जलि:-'शुद्धोऽपि पुरुषः प्रत्यहं बौद्धमनुपश्यति तमनुपश्यन् अतदात्मकोऽपि तदात्मक इव प्रतिभासते' इति । मुख्यतस्तु बुद्धेरेव विषयपरिच्छेदः । तथा च वाचस्पतिः-'सर्वो व्यवहर्ता आलोच्य नन्वहमत्राऽधिकृत-इत्यभिमत्य, कर्तव्यमेतन्मया, इत्यध्यवस्यति । ततश्च प्रवर्तते, इति लोकत: सिद्धम् । तत्र कर्तव्यमिति योऽयं निश्चयचितिसन्निधाना-ऽऽपनचैतन्याया बुद्धेः सोऽध्यवसायो
१. 'षड्जऋषभगान्धारा मध्यमः पंचमस्तथा । धैवतो निषधः सप्ततन्त्रीकण्ठोद्भवाः स्वराः' ।।
इति अभिधानचिन्तामणौ ६-३७ ।। २. 'तद्यथा' इत्यधिकं ह. पुस्तके । ३. सांख्यतत्त्वकौमुद्याः प्रणेता वाचस्पतिः । तेन २३ तम्यां सांख्यकारिकायां निर्दिष्टमिदम् ।
स्याद्वादमञ्जरी
ka
r ii
१०५)