________________
बुद्धेरसाधारणो व्यापारः' इति । चिच्छक्तिसन्निधानाच्चाऽ चेतनाऽपि बुद्धिश्चेतनावतीवाऽऽभासते । 'वादमहार्णवोऽप्याह 'बुद्धिदर्पणसंक्रान्तमर्थप्रतिबिम्बकं द्वितीयदर्पणकल्पे पुंस्यध्यारोहति । तदेव भोक्तृत्वमस्य, न त्वात्मनो विकाराऽऽपत्तिः' इति । तथाचासुरिः’
'विविक्तेदृक्परिणती बुद्धौ भोगोऽस्य कथ्यते ।
प्रतिबिम्बोदयः स्वच्छे यथा चन्द्रमसोऽम्भसि । । १ । ।
विन्ध्यवासी त्वेवं भोगमाचष्टे
'पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् ।
मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ' । । १ । ।
न · च वक्तव्यम् - पुरुषश्चेदगुणोऽपरिणामी, कथमस्य मोक्षः ? मुचेर्बन्धनविश्लेषाऽर्थत्वात् सवासनक्लेशकर्माशयानां च बन्धनसमाम्नातानां पुरुषेऽपरिणामिन्यसम्भवात् । अत एव नाऽस्य प्रेत्यभावाऽपरनामा संसारोऽस्ति, निष्क्रियत्वादिति । यतः प्रकृतिरेव नानापुरुषाऽऽश्रया सती बध्यते, संसरति, मुच्यते च, न पुरुष इति बन्धमोक्षसंसाराः पुरुषे उपचर्यन्ते । यथा जयपराजयौ भृत्यगतावपि स्वामिन्युपचर्येते, तत्फलस्य कोशलाभादेः स्वामिनि संबन्धात्, तथा भोगापवर्गयोः प्रकृतिगतयोरपि विवेकाग्रहात् पुरुषे संबन्ध इति ।
१. वेदान्तग्रन्थविशेषः । किंच अयं ग्रन्थः- विक्रमीयदशमशताब्दीभाजां श्रीमदभयदेवसूरीणां श्वेताम्बरं जगच्छीयप्रद्युम्न सूरिशिष्यत्वेन प्रसिद्धानाम् । यथा प्रभावकचारित्रप्रशस्तौ'शिष्योऽस्याऽभयदेवसूरिरभवज्जाड्याऽन्धकारं हरन् । गोभिर्भास्करवत्परां विरचयन् भव्याप्तवर्गेच्छदम् ।।
ग्रन्थो वादमहार्णवोऽस्य विदितः प्रौढ़ः प्रमेयोमिं (भ)त् ।
' इति ।
दत्तेर्थ (?) जिनशासनप्रवहणं सांयात्रिकाणां ध्रुवम् ।। ४ ।। अत्र 'यद्यपि वाहमहार्णवस्तत्कृतित्वेन क्वचिदुल्लिखितो भाति तथापि दीर्घातिदीर्घवादमालजटिलां प्रस्तुतां (संमतितर्कस्य) टीकामेव वादमहार्णवत्वेन कल्पयन्ति केचित्' इति (संमतितर्कप्रस्तावना
श्रीसुखलालबेचरदासकृता) ।
२. अयं सांख्याचार्य ईश्वरकृष्णगुरुपरम्परायामुपलभ्यते ।
३. 'नानांश्रया' इति घ. पुस्तके पाठः ।
१०६४
ॐॐॐ स्याद्वादमञ्जरी