________________
तदेतदखिलमालनालम् । चिच्छक्तिश्च, विषयपरिच्छेदशून्या चेति परस्परविरुद्ध वचः । चिती संज्ञाने; चेतनं, चित्यते वाऽनयेति चित् । सा चेत् स्वपरपरिच्छेदाऽऽत्मिका नेष्यते, तदा चिच्छक्तिरेव सा न स्यात्, घटवत् । न चामूर्तयाश्चिच्छक्तेर्बुद्धौ प्रतिबिम्बोदयो युक्तः तस्य मूर्तधर्मत्वात् । न च तथा परिणाममन्तरेण प्रतिसंक्रमोऽपि युक्त, कथञ्चित् सक्रियाऽऽत्मकताव्यतिरेकेण प्रकृत्युपधानेऽप्यन्यथात्वाऽनुपपत्तेः, अप्रच्युतप्राचीनरूपस्य च सुखदुःखाऽदिभोगव्यपदेशाऽनर्हत्वात् । तत्प्रच्यवे च प्राक्तनरूपत्यागेनोत्तर- रूपाऽध्यासिततया सक्रियत्वाऽऽपत्तिः । स्फटिकादावपि तथा परिणामेनैव प्रतिबिम्बोदयसमर्थनात् । अन्यथा कथमन्धोपलादौ न प्रतिबिम्बः । तथा परिणामाऽभ्युपगमे च बलादायातं चिच्छक्तेः कर्तृत्वं,साक्षाद्भोक्तृत्वं च ।
... अथ अपरिणामिनी भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यर्थे प्रलिसंक्रान्ते च तवृत्तिमनुभवति' इति पतञ्जलिवचनादौपचारिक एवायं प्रतिसंक्रम इति चेत् । तर्हि 'उपचार स्तत्त्वचिन्तायामनुपयोगी' इति प्रेक्षावतामनुपादेय एवायम् । तथा च प्रतिप्राणिप्रतीतं सुखदुःखादिसंवेदनं निराश्रयमेव स्यात् । न चेदं बुद्धरुपपन्नम् । तस्या जडत्वेनाऽभ्युपगमात् ।। अत एव जडा च बुद्धिः, इत्यपि विरुद्धम् । न हि जडस्वरूपायां बुद्धो विषयाऽध्यवसायः साध्यमानः साधीयस्तां दधाति ।
ननूक्तमचेतनापि बुद्धिश्चिच्छक्तिसान्निध्याचेतनावतीवाऽवभासत इति । सत्यमुक्तम् । अयुक्तं तूक्तम् । न हि चैतन्यवति पुरुषाऽऽदौ प्रतिसंक्रान्ते दर्पणस्य चैतन्याऽपत्तिः । चैतन्याचैतन्ययोरपरवर्तिस्वभावत्वेन 'शक्रेणाऽप्यन्यथाकर्तुमशक्यत्वात्। किञ्च, अचेतनापि चेतनावतीव प्रतिभासत इति इव शब्देनाऽऽरोपो ध्वन्यते । न चाऽऽरोपोऽर्थक्रियासमर्थः । न खल्वतिकोपनत्वादिना समारोपिताऽ
१. अलीकभाषणसंरम्भ इत्यर्थः । २. 'चितै संज्ञाने । संज्ञानं संवित्तिः' इति हैमधातुपरायणे भ्वादिगणे धा. २७८ । ३. 'अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यथें प्रतिसंक्रान्तेव तवृतिमनुपतति'
इति पातञ्जलयोगसूत्रोपरि व्यासभाष्यम् ४-२२ । ४. तत्त्वचिन्तायां लाक्षणिकोऽथों नोपयुज्यत इत्यर्थः । ५. इन्द्रेण । स्याद्वादमञ्जरी
१०७