________________
ग्नित्वो माणवकः कदाचिदपि मुख्याऽग्निसाध्यां दाहपाकाद्यर्थक्रियां कर्तुमीश्वरः । इति चिच्छक्तेरेव विषयाध्यवसायो घटते न जडरूपया बुद्धेरिति । अतएव धर्माद्यष्टरूपताऽपि तस्या वाङ्मात्रमेव । धर्मादीनामात्मधर्मत्वात्। अत एव चाऽहङ्कारोऽपि न बुद्धिजन्यो युज्यते । तस्याऽभिमानात्मकत्वेनाऽत्मधर्मस्या ऽचेतनादुत्पादाऽयोगात् । अम्बरादीनां च शब्दादितन्मात्रजत्वं प्रतीतिपराहतत्वेनैव विहितोत्तरम् । ___अपि च, सर्ववादिभिस्तावदविगानेन गगनस्य नित्यत्वमङ्गीक्रियते । अयं च शब्दतन्मात्रात् तस्याऽप्याविर्भावमुद्भावयन्नित्यैकान्तवादिनां च धुरि आसनं न्यासयन्न- संगतप्रलापीव प्रतिभाति । न च परिणामिकारणं स्वकार्यस्य गणो भवितुमर्हतीति 'शब्दगुणमाकाशम्' इत्यादि वाङ्मात्रम् । वागादीनां चेन्द्रियत्वमेव न युज्यते, इतराऽसाध्य- कार्यकारित्वाऽभावात् । परप्रतिपादनग्रहणविहरणमलोत्सर्गाऽऽदिकार्याणामितराऽवयवैरपि साध्यत्वोपलब्धेः । तथापि तत्कल्पेन इन्द्रियसंख्या न व्यवतिष्ठते, अन्याङ्गोपाङ्गा- नामपीन्द्रियत्वप्रसङ्गात् ।.
यञ्चोक्तं 'नानाश्रयायाः प्रकृतेरेव बन्धमोक्षो संसारश्च । न पुरुषस्य' इति । तदप्यसारम् । अनादिभवपरम्पराऽनुबद्धया प्रकृत्या सह यः पुरुषस्य विवेकाग्रहण- लक्षणोऽविष्वाभावः स एव चेन्न बन्धः, तदा को नामान्यो बन्धः स्यात् ?. प्रकृतिः सर्वोत्पत्तिमतां निमित्तम् इति च प्रतिपद्यमानेनाऽऽयुष्मता संज्ञान्तरेण कमैव प्रतिपन्नं तस्यैवस्वरूपत्वात्, अचेतनत्वाञ्च ।। __यस्तु प्राकृतिकवैकारिकदाक्षिणभेदात् त्रिविधो बन्धः । तद्यथा प्रकृतावात्मज्ञानाद् ये प्रकृतिमुपासते तेषां प्राकृतिको बन्धः । ये विकारानेव भूतेन्द्रियाहङ्कारबुद्धी: पुरुषबुद्ध्योपासते तेषां वैकारिकः । इष्टापूर्ते दाक्षिणः । पुरुषतत्त्वाऽनभिज्ञो हीष्टापूर्तकारी कामोपहतमना बध्यत इति ।
'२इष्टांपूर्त मन्यमाना वरिष्ठं ।
नान्यच्छ्रेयो येऽभिनन्दन्ति मूढाः ।। १. तस्मान्न बध्यतेऽद्धा न मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ।।६२।। इति सांख्यकारिकायाम् । २. मुं. १।२।१० । (१०८Kakudurikar स्याद्वादमञ्जरी