________________
नाकस्य पृष्ठे ते सुकृतेन भूत्वा । इमं लोकं हीनतरं वा विशन्ति' ।।१।। इति वचनात् ।
स त्रिविधोऽपि कल्पनामात्रम् । कथञ्चिद् मिथ्यादर्शनाऽविरतिप्रमादकषाययोगेभ्योऽभिन्नरूपत्वेन कर्मबन्धहेतुष्वेवाऽन्तर्भावात् । ___ बन्धसिद्धौ च सिद्धस्तस्यैव निर्बाधः संसारः । बन्धमोक्षयोश्चैकाधिकरणत्वाद् य एव बद्धः स एव मुच्यत इति पुरुषस्यैव मोक्षः, आबालगोपालं तथैव प्रतीतेः । __ प्रकृतिपुरुषविवेकदर्शनात् प्रवृत्तेरुपरतायां प्रकृतौ पुरुषस्य स्वरूपेणाऽवस्थानं मोक्ष इति चेत् । न, प्रवृतिस्वभावायाः प्रकृतेरौदासीन्याऽयोगात् । अथ पुरुषार्थनिबन्धना तस्याः प्रवृत्तिः, विवेकख्यातिश्च पुरुषार्थः तस्यां जातायां निवर्तते, कृतकार्यत्वात् । _ 'रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।
पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ।।१।।
इति वचनादितिचेद् । नैवम्,तस्या अचेतनाया विमृश्यकारित्वाऽभावात् । यथेयं कृतेऽपि शब्दाधुपलम्भे पुनस्तदर्थं प्रवर्तते, तथा विवेकख्यातौ कृतायामपि पुनस्तदर्थं प्रवर्तिष्यते । प्रवृत्तिलक्षणस्य स्वभावस्याऽनपेतत्वात् । नर्तकीदृष्टान्तस्तु स्वेष्टविघातकारी, यथा हि नर्तकी नृत्यं 'पारिषदेभ्यो दर्शयित्वा निवृत्तापि पुनस्तत्कुतूहलात् प्रवर्तते, तथा प्रकृतिरपि पुरुषायाऽऽत्मानं दर्शयित्वा निवृत्ताऽपि पुनः कथं न प्रवर्ततामिति ? तस्मात् कृत्स्त्रकर्मक्षये पुरुषस्यैव मोक्ष इति प्रतिपत्तव्यम् ।
१. मिथ्या विपरीतं दर्शनं-मिथ्यादर्शनम् । अविरतिः-सावद्ययोगेभ्यो निवृत्त्यभावः सा च द्वादशप्रकारा।
मनः स्वान्तं, करणानि इन्द्रियाणि पञ्च तेषां स्वस्वविषये प्रवर्तमानानामनियमोऽनियन्त्रणम् । तथा षण्णां । पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः । प्रमादः-प्रकर्षेण माद्यन्त्यनेनेति प्रमादः । विषयक्रीडाऽभिष्वङ्गः । कषायः-कष्यन्ते बध्यन्ते प्राणिनोऽनेनेति कषं कर्मभवो वा । तद् आयो लाभो येषां यतस्ततः कषायाः । यदि वा कलुषयन्तिं शुद्धस्वभावं सन्तं
कर्ममलिन कुर्वन्ति जीवमिति कषायाः । ते चत्वारः क्रोधमानमायालोभाऽऽख्याः । । २. 'निर्वाधोऽयम्' इति क. पुस्तके पाठः । ३. सांख्यकारिका ५९ । ४. विमृश्यकारित्वं-विचारपूर्वकार्यकारित्वम् । ५. पारिषदाः-परिषद्भवाः सभ्याः । स्याद्वादमञ्जरीMARAutkukka १०९)