________________
काव्यार्थः ।।१४।।
इदानीं सांख्याऽभिमतप्रकृतिपुरुषाऽऽदितत्त्वानां विरोधाऽवरुद्धत्वं ख्यापयन्,
तद्बालिशताविलसितानामपरिमितत्वं दर्शयति
चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति; कियद् जडैर्न ग्रथितं विरोधि ।।१७।।
चित्-चैतन्यशक्तिः, आत्मस्वरूपभूता । अर्थशून्या-विषयपरिच्छेदबिरहिता । अर्थाऽध्यवसायस्य बुद्धिव्यापारत्वाद् - इत्येका कल्पना । बुद्धिश्च महत्तत्त्वाख्या । जडा अनवबोधस्वरूपा -इति द्वितीया । अम्बरादि- व्योमप्रभृतिभूतपञ्चकं शब्दादितन्मात्रजम्-शब्दादीनि यानि पञ्चतन्मात्राणि सूक्ष्मसंज्ञानि तेभ्यो जातमुत्पन्नं, शब्दादितन्मात्रजम्-इति तृतीया । अत्र च शब्दो गम्यः । पुरुषस्य च प्रकृतिविकृत्यनात्मकस्याऽऽत्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव । तथा च
. कापिलाः
" तस्माद् न बध्यते नापि मुच्यते, नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाऽऽश्रया प्रकृतिः' ।।१।।
तत्रबन्धः-प्राकृतिकादिः । मोक्षः पञ्चविंशतितत्त्वज्ञानपूर्वकोऽपवर्गः-इति चतुर्थी । इतिशब्दस्य प्रकारार्थत्वाद्-एवंप्रकारमन्यदपि, विरोधीति विरुद्धं, पूर्वापरविरोधाऽऽदिदोषाऽऽघ्रातम् । जडैः- मूखैः, तत्त्वाऽवबोधविधुरधीभिः कापिलैः । कियन्न ग्रथितंकियद् न स्वशास्त्रेषूपनिबद्धम् । कियदित्यसूयागर्भम् । `तत्प्ररूपितविरुद्धार्थानामानन्त्येनेयत्ताऽनवधारणात् । इति संक्षेपार्थः ।
१. ईश्वरकृष्णोपरचितसांख्यकारिका ६२ ।
२. तत्कल्पितेत्यर्थः ।
(स्याद्वादमञ्जरी
ॐ ॐ ४ १०३