________________
तस्य प्रवृत्तेः, सर्वशब्दानां सर्वार्थप्रत्यायनशक्तियुक्तत्वात् । यत्र च देशकालादौ यदर्थप्रतिपादनशक्तिसहकारी संकेतस्तत्र तमर्थं प्रतिपादयति ।
तथा च निर्जितदुर्जयपरप्रवादाः श्रीदेवसूरिपादा:- “स्वाभाविकसामर्थ्यसमयाभ्यामर्थबोधनिबन्धनं शब्दः' इति । अत्र शक्तिपदार्थसमर्थन ग्रन्थान्तरादवसेयम् । अतोऽन्यथेत्यादि उत्तरार्धं पूर्ववत् । प्रतिभाप्रमादस्तु तेषां सदसदेकान्ते वाच्यस्य । प्रतिनियतार्थविषयत्वे च वाचकस्य उक्तयुक्त्या दोषसद्भावाद् व्यवहारानुपपत्तेः । तदयं समुदायार्थः-सामान्यविशेषात्मकस्य, भावाभावात्मकस्य च वस्तुनः-सामान्यविशेषात्मको, भावाभावात्मकश्च ध्वनिर्वाचक इति । अन्यथा-प्रकारान्तरैः, पुनर्वाच्यवाचकभावव्यवस्थामातिष्ठमानानां वादिनां प्रतिभैव प्रमाद्यति, म तु तद्भणितयो युक्तिस्पर्शमात्रमपि सहन्ते ।
. कानि तानि वाच्यवाचकभावप्रकारान्तराणि परवादिनामिति चेत्-एते ब्रूमः । 'अपोह एव शब्दार्थः' इत्येके । अपोहः, शब्दलिङ्गाभ्यां न वस्तु विधिनोच्यते' इति वचनात् । 'अपरे सामान्यमात्रमेव शब्दानां गोचरः । तस्य क्वचित् प्रतिपन्नस्य, एकरूपतया सर्वत्र संकेतंविषयतोपपत्तेः । न पुनर्विशेषाः । तेषामानन्त्यतः कायेनोपलब्धुमशक्यतया तद्विषयताऽनुपपत्तेः । विधिवादिनस्तु विधिरेव वाक्यार्थः; अप्रवृत्तप्रवर्तनस्वभावत्वात् तस्येत्याचक्षते । विधिरपि-तत्तद्वादिविप्रतिपत्याऽनेकप्रकारः । तथाहि वाक्यरूपः शब्द एव प्रवर्तकत्वाद् विधिरित्येके । तद्व्यापारो भावनाऽपरपर्यायो विधिरित्यन्ये । नियोग इत्यपरे । प्रैषादय इत्येके । तिरस्कृतलदुपाधिप्रवर्तनामात्रमित्यन्ये । एवं फलतदभिलाषकर्माऽऽदयोऽपि वाच्याः । एतेषां निराकरणं सपूर्वोत्तरपदं न्यायकुमुदचन्द्रादसेयमिति । इति १. प्रमाणनयतत्त्वालोकालङ्कारे चतुर्थपरिच्छेदे सू. ११ । २. 'इति' पदं. कं. ख. रा. ह. च. पुस्केषु नास्ति । ३. स्याद्वादरत्नाकरपरि. २ सू. १ इत्यादयः । ४. बौद्धाः । ५. 'च' इत्यधिकं क. ख. घ. ह. पुस्तकेषु । ६. अयं ग्रन्थः-भट्टाकलङ्कदेवकृतलधीयत्रयग्रन्थटीकात्मकः । इयं टीका दिगम्बराचार्यश्रीमाणिक्य
नन्देरन्तेवासिना श्रीप्रभाचन्द्रेण प्रणीता । (१०२RANKaran स्याद्वादमञ्जरी