________________
योगिनः-शरीरं प्रति घट इति संकेतानां पुरुषेच्छाऽऽधीनतयाऽनियतत्वात् । यथा चौरशब्दोऽन्यत्र तस्करे रूढोऽपि दाक्षिणात्यानामोदने प्रसिद्धः । यथा चं कुमारशब्दः पूर्वदेशे अश्विनमासे रूढः । एवं कर्कटीशब्दादयोऽपि तत्तद्देशाऽपेक्षया योन्यादिवाचका ज्ञेयाः । कालाऽपेक्षया पुनर्यथा जैनानां प्रायश्चित्तविधौ धृतिश्रद्धा संहननादिमति प्राचीनकाले, षड्गुरुशब्देनशतमशीत्यधिकमुपवासानामुच्यते स्म, सांप्रतकाले तु, तद्विपरीते तेनैव षड्गुरुशब्देनउपवासत्रयमेव सङ्केत्यते, जीतकल्पव्यवहाराऽनु-सारात् । शास्त्राऽपेक्षया तु यथा पुराणेषु-द्वादशीशब्देनैकादशी । त्रिपुरार्णवे च-अलिशब्देन मदिराभिषक्तम् च मैथुनशब्देन मधुसर्पिषोर्ग्रहणम् इत्यादि ।
न चैवं सङ्केतस्यैवार्थप्रत्यायने प्राधान्यं, स्वाभाविकसामर्थ्यसाचिव्यादेवं तत्र
१. दृढीक्रियन्ते शरीरपुद्रला: येन तत्संहननं । तञ्चास्थिनिचयः । कीलिकादिरूपाणामस्थां
निचयो रचनाविशेषोऽस्थिनिचयः । शक्तिविशेष इत्यन्ये । तत्संहननं षट्प्रकारैर्भवति-१ वज्रऋषभनाराचं- द्वयोरस्थ्नोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्था परिवेष्टितयोरुपरि तदस्थित्रयभेदिकीलिकाख्यं वज्रनामकमस्थि यत्र भवति तऋषभनाराचम् । २ ऋषभनाराचं- कीलिकारहितं संहननं तंत् ऋषभनाराचम् । ३ नाराचं-मर्कटबन्धः केवलो भवति न पुनः कीलिका भवति ऋषभसंज्ञः पट्टश्च तनाराचम् । ४ अर्धनाराचंएकपार्श्वन मर्कटबन्धो द्वितीयपार्श्वेन च कीलिका भवति तदर्धनाराचम् । ५ कीलिकाअस्थीनि कीलिकामात्रबद्धान्येव भवन्ति तत्कीलिकासंहननम् । ६ सेवार्त-यत्र तु परस्परं पर्यन्तस्पर्शलक्षणां सेवामागतान्यस्थीनि भवन्ति स्नेहाभ्यवहारतैलाभ्यङ्गविश्रामणादिरूपां च . परिशीलनां नित्यमपेक्षते तत्सेवार्तम् ।। श्रीजिनभद्रमगणिक्षमाश्रमणकृतो गाथाग्रन्थो जीतकल्पाख्यः । जीतमाचरितं तस्य कल्पो वर्णना प्ररूपणा जीतकल्पः । तत्राद्यगाथापञ्चकेन शास्त्रप्रस्तावनामभिधाय (४) चतसृभिर्गाथाभिराद्यस्य, (४) चतुसृभिर्द्वितीयस्य, (३) तिसृभिस्तृतीयस्य, (२) द्वाभ्यांचतुर्थस्य, (५) पञ्चभिःपञ्चमस्य, (५८) अष्टमपञ्चाशद्भिर्गाथाभिर्ज्ञानाचारादि (आदिशब्देन दर्शनाचारचारित्राचार-तपाचार-वीर्याचाराणां ग्रहणम्) पञ्चकातिचारगोचरस्य षष्ठस्य, (३) तिसृभिः सप्तमस्य, (४) चतसृभिरष्टमस्य, (७) सप्तभिर्नवमस्य, (९) नवभिर्दशमस्य प्रायश्चित्तस्य व्याख्यानेन एष सर्वसमुदायात्मको जीतकल्पः । मूलसंख्या १०८, टीका १२०००, सेनकृतचूर्णिः (प्राकृतभाषाटीका) १०००, भाष्यम् ३१२४, सम्पूर्णसंख्या १६२३२। चूर्णिव्याख्या ११२०,
अस्य लघुवृत्तिः श्रीसाधुरत्नकृता ५७०० श्रीतिलकाचार्यकृता च १५०० । ३. अयं शाक्तमार्गीयो ग्रन्थः ।। ४. 'मदिराभिषिक्ताने च' इति रा. पुस्तके पाठः । स्याद्वादमञ्जरी
१०१)