________________
तथा- ‘एको भावः सर्वथा येन दृष्टः ।
सर्वे भावाः सर्वथा तेन दृष्टाः ।। सर्वे भावाः सर्वथा येन दृष्टाः ।
एको भावः सर्वथा तेन दृष्टः' ।।१।। ये तु सौगताः पराऽसत्त्वं नाङ्गीकुर्वते, तेषां घटादेः सर्वाऽऽत्मकत्वप्रसङ्ग । तथाहि यथा घटस्य स्वरूपाऽऽदिना सत्त्वं, तथा यदि पररूपाऽऽदिनाऽपि स्यात्, तथा च सति स्वरूपाऽऽदिसत्ववत् पररूपाऽऽदिसत्प्रसक्तेः कथं न सर्वाऽऽत्मकत्वं भवेत् । पराऽसत्त्वेन तु प्रतिनियतोऽसौ सिध्यति । अथ न नाम नास्ति पराऽसत्त्वं, किन्तु स्वसत्त्वमेव तदिति चेद्-अहो 'वैदग्धी ! न खलु यदेव सत्त्वं तदेवाऽसत्त्वं भवितुमर्हति । विधिप्रतिषेधरूपतया विरुद्धधर्माऽध्यासेनाऽनयोरेक्याऽयोगात् । .
अथ युष्मत्पक्षेऽप्येवं विरोधस्तदवस्थ एवेति चेद् अहो ! वाचाटता २देवानांप्रियस्य । नहि वयं येनैव प्रकारेण सत्त्वं, तेनैवाऽसत्त्वं येनैव चाऽसत्त्वं, तेनैव सत्त्वमभ्युपेमः, किन्तु स्वरूपद्रव्यक्षेत्रकालभावैः सत्त्वं, पररूपद्रव्यक्षेत्रकालभावैस्त्वसत्त्वम् । तदा कं विरोधाऽवकाशः । ___ यौगास्तु प्रगल्भन्ते-सर्वथा पृथग्भूतपरस्पराऽभावाऽभ्युपगममात्रेणैव पदार्थप्नतिनियमसिद्धेः, किं तेषामसत्त्वाऽत्मकत्वकल्पनया इति । तदसत्यथा हि पटाद्यभावरूपो घटो न भवति, तदा घटः पटादिरेव स्यात् । यथा च घटाऽभावाद् भिन्नत्वाद् घटस्य घटरूपता, तथा पटादेरपि स्यात्, घटाऽभावाद् भिन्नत्वादेव । इत्यलं विस्तरेण । • एवं वाचकमपि शब्दरूपं द्वयात्मकम्-एकात्मकमपि सदअनेकमित्यर्थः । अर्थोक्तन्यायेन शब्दस्याऽपि भावाऽभावाऽऽत्मकत्वात् । अथवा एकविषयस्याऽपि वाचकस्याऽनेकविषयत्वोपपत्तेः । यथा किल घटशब्दः संकेतवशात् पृथुबुनोदराद्या-कारवति पदार्थे प्रवर्तते वाचकतया, तथा देशकालाद्यपेक्षया तद्वंशादेव पदार्थान्त-रेष्वपि तथा वर्तमानः केन वार्यते ? भवन्ति हि वक्तारो १. वैदग्धी-चातुर्यम् । २. देवानांप्रियः-मूर्खः । ३. अर्थपरिपाट्यनुसारमित्यर्थः । ( १००
T ARRA स्याद्वादमञ्जरी