________________
इति 'प्रत्युक्तम् । शब्दस्य ह्येतदेव तत्त्वं-यदभिधेयं याथात्म्येनाऽसौ प्रतिपादयति । . स च-तत् तथा प्रतिपादयन् वाच्यस्वरूपपरिणामपरिणत एव वक्तुं शक्यः, नाऽन्यथा, अतिप्रसङ्गात् । घटाऽभिधानकाले पटाऽऽद्यभिधानस्याऽपि प्राप्तेरिति ।
अथ वा भङ्गयन्तरेण सकलं काव्यमिदं व्याख्यायते-वाच्यं वस्तु, घटादिकम् । एकात्मकमेव-एकस्वरूपमपि सत्,अनेकम्अनेकस्वरूपम् । अयमर्थः-प्रमाता तावत् प्रमेयस्वरूपंलक्षणेन निश्चिनोति ।तञ्च सजातीयविजातीयव्यवच्छेदादात्मलाभलभते ।यथा घटस्य सजातीया मृण्मयपदार्थाः, विजातीयाश्च पटादयः । तेषां व्यवच्छेदस्तल्लक्षणम् । पृथुबुनोदराद्याकार: कम्बुग्रीवोजलधारणाऽऽहरणादिक्रिया-समर्थः पदार्थविशेषोघट इत्युच्यते । तेषां च सजातीयविजातीयानां स्वरूपं तत्र बुद्ध्या आरोग्य व्यवच्छिद्यते । अन्यथा प्रतिनियततत्स्वरूपपरिच्छेदाऽनुपपत्तेः ।
सर्वभावानां हि भावाऽभावात्मकं स्वरूपम् । एकान्तभावाऽत्मकत्वे वस्तुनो वैश्वरूप्यं स्यात् । एकान्ताऽभावाऽऽत्मकत्वे च निःस्वभावता स्यात् । तस्मात् स्वरूपेण सत्त्वात् पररूपेण चाऽसत्त्वाद् भावाऽभावाऽऽत्मकं वस्तु । यदाह
'सर्वमस्ति स्वरूपेण पररूपेण नास्ति च । , . अन्यथा सर्वसत्त्वं स्यात् स्वरूपस्याऽप्यसंभवः' ।।१।। ...
ततश्चैकस्मिन घटे सर्वेषां घटव्यतिरिक्तपदार्थानामभावरूपेण वृत्तेरनेकाऽत्मकत्वं घटस्य सूपपादम् । एवं चैकस्मिन्नर्थे ज्ञातें सर्वेषामर्थानां ज्ञानम् । सर्वपदार्थपरिच्छेदमन्तरेण तन्निषेधाऽऽत्मन एकस्य वस्तुनो विविक्ततया परिच्छेदाऽसंभवात् । आगमोऽप्येवमेव व्यवस्थितः
'जे एगं जाणइ से सव्वं जाणइ । जे सव् जाणइ से एगं जाणइ ' ।।
१. 'अर्थाऽभिधानप्रत्ययास्तुल्यनामधेया' इति वचनात् । इति क. ह. पुस्तकयोरधिकम् । २. 'सतत्त्वं' इति ख. पुस्तके पाठः । ३. 'एकस्वरूपमेव' इति क. पुस्तके पाठः । ४. विभिन्नतया । स्याद्वादमञ्जरी Animun
९९)