________________
भिर्व्यभिचारात् । न हि गन्धद्रव्यादिकमपि नासायां निविशमानं तद्विवरद्वारदेशोद्भिन्नश्मश्रुप्रेरकं दृश्यते । पञ्चमः पुनः-असिद्धः । तथाहि न गगनगुणः शब्दः, अस्मदादिप्रत्यक्षत्वाद्, रूपादिवत् । इति सिद्धः पौद्गलिकत्वात् सामान्यविशेषात्मकः शब्द इति ।
न च वाच्यम्-आत्मन्यपौद्गलिकेऽपि कथं सामान्यविशेषाऽऽत्मकत्वं निर्विवादमनुभूयत इति । यतः- संसार्यात्मनः प्रतिप्रदेशमनन्तानन्तकर्मपरमाणुभिःसह वह्नितापिघनकुट्टित- निर्विभागपिण्डीभूतसूचीकलापवल्लोलीभावमापन्नस्य कथञ्चित् पौद्गलिकत्वाऽभ्यनुज्ञानादिति । यद्यपि स्याद्वादवादिनां पौगलिकमपौद्गलिकं च सर्वं वस्तु सामान्यविशेषात्मकं, तथाप्यपौद्गलिकेषु धर्माऽधर्माऽऽकाशकालेषु तदात्मत्वमर्वाग्दृशां न तथा प्रतीतिविषयमायाति । पौद्गलिकेषु पुनस्तत् साध्यमानं तेषां सुश्रद्धानम् । इत्यप्रस्तुतमपि शब्दस्य पौद्गलिकत्वमत्र सामान्यविशेषात्मकत्व-साधनायोपन्यस्तमिति । __ अत्रापि नित्यशब्दवादिसंमतः शब्दैकत्वैकान्तः, अनित्यशब्दवाद्यभिमतः शब्दाऽनेकत्वैकान्तश्च प्राग्दर्शितदिशा प्रतिक्षेप्यः । अथवा वाच्यस्य घटादेरर्थस्य सामान्यविशेषाऽऽत्मकत्वे तद्वाचकस्य ध्वनेरपि तत्त्वम् । शब्दार्थयोः कथञ्चित् तादात्म्याऽभ्युपगमात् । यदाहुर्भद्रबाहुस्वामिपादा:
अभिहाणं अभिहेयाउ होइ भिण्णं अभिण्णं च । खुरअग्गिमोयगुयारणम्हि जम्हा उ वयणसवणाणं ।।१।। नवि छेओ नवि दाहो ण पूरणं तेण भिन्नं तु । जम्हा य मोयगुशारणम्हि तत्थेव पञ्चओ होइ ।।२।। न य होइ स अन्नत्थे तेण अभिन्नं तदत्थओ' एतेन 'विकल्पयोनयः शब्दा विकल्पा: शब्दयोनयः कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यपि' ।।१।।
१. अभिधानमभिधेयाद् भवति भिन्नमभिन्नं च । क्षुरा-ऽग्नि-मोदकोचारणे यस्मात् तु वदन
श्रवणयोः ।। १ ।। नाऽपि च्छेदो नापि दाहो न पूरणम्, तेन भिन्नं तु । यस्माञ्च
मोदकोच्चारेण तत्रैव प्रत्ययो भवति ।। २ ।। न च भवति अन्याऽर्थे तेनाऽभिन्नं तदर्थात् । (९८
स्याद्वादमञ्जरी