________________
कथञ्चिद् विरूद्धधर्माऽध्यासितत्वं चेद् विवक्षितम्-तदाऽस्मत्कक्षाप्रवेशः । कथञ्चिद् विरुद्धधर्माऽध्यासस्य कथञ्चिद् भेदाऽविनाभूतत्वात् । पाथः-पावकदृष्टान्तोऽपि साध्य- साधनविकलः । तयोरपि कथञ्चिदेव विरुद्धधर्माध्यासितत्वेन भिन्नत्वेन च स्वीकरणात् । पयस्त्वपावकत्वादिना हि तयोविरुद्धधर्माध्यासः, भेदश्च । द्रव्यत्वादिना पुनस्तद्वैपरीत्यामिति । तथा च कथं न सामान्यविशेषाऽऽत्मकत्वं वस्तुनो घटते इति । ततः सुष्ठुक्तं वाच्यमेकमनेकरूपम् इति । । . एवं वाचकमपि शब्दाख्यं द्वयात्मकम्-सामान्यविशेषात्मकम् । सर्वशब्दव्यक्तिष्वनुयायि शब्दत्वमेकम् । 'शाङ्खशार्ङ्गतीव्रमन्दोदात्ताऽनुदात्तस्वरिताऽऽदिविशेषभेदादनेकम् । शब्दस्य हि सामान्यविशेषात्मकत्वं पौद्गलिकत्वाद् व्यक्तमेव । तथाहि-पौद्गलिकः शब्दः, इन्द्रियाऽर्थत्वात् रूपादिवत् ।...
यञ्चाऽस्य पौद्गलिकत्वनिषेधाय स्पर्शशून्याऽश्रयत्वात् अतिनिबिडप्रदेशे प्रवेशनिर्गमयोरप्रतिघातात् पूर्व पश्चाञ्चाऽवयवाऽनुंपलब्धेः, सूक्ष्ममूर्तद्रव्याऽन्तराऽप्रेरकत्वाद्, गगनगुणत्वात् चेति पञ्च हेतवो योगैरुपन्यस्ताः, ते हेत्वाभासाः । तथाहिशब्दपर्यायस्याश्रयो भाषावर्गणा, न पुनराकाशम् । तत्र च स्पर्शो निर्णीयत एव । यथा शब्दाश्रयः स्पर्शवान्, अनुवातप्रतिवातयोर्विप्रकृष्टनिकटशरीरिणोपलभ्यमानाऽनुपलभ्यमानेन्द्रियार्थत्वात् तथाविधगन्धाधारद्रव्यपरमाणुवत्, इति-असिद्धः प्रथमः । द्वितीयस्तु-गन्धद्रव्येण व्यभिचारादनैकान्तिकः । वर्त्यमानजात्यकस्तूरिकादि गन्धद्रव्यं हि पिहितद्वाराऽपवरकस्यान्तर्विशति, बहिश्च निर्याति, न चाऽपौद्गलिकम् ।।
अथ तत्र सूक्ष्मरन्ध्रसंभवाद् नाऽतिनिबिंडत्वम्, अतस्तत्र तत्प्रवेशनिष्क्रमौ । कथमन्योद्घाटितद्वारावस्थायामिव न तदेकार्णवत्वम् । सर्वथा नीरन्ध्रे तु प्रदेशे न तयोः संभवः, इति चेत्-तर्हि शब्देऽप्येतत्समानम् इत्यसिद्धो हेतुः । तृतीयस्तु तडिल्लतोल्कादिभिरनैकान्तिकः । चतुर्थोऽपि-तथैव । गन्धद्रव्यविशेषसूक्ष्मरजोधूमादि १. 'तद्विपरीतम्' इति रा. ख. घ. पुस्तकेषु पाठः । २. शङ्खः- कञ्जः-शृङ्ग-वाद्यविशेषः । उच्चैरुदात्त: । नीचैरनुदात्तः । समाहारः स्वरितः ।। ३. सजातीयवस्तुसमुदायो वर्गराशिर्वर्गणा । यां भाषार्थ जीवोऽवलम्बते यां च गृहीत्वा __चतुर्विधभाषात्वेन परिणमय्य विसृजति सा भाषावर्गणा ।। (स्याद्वादमञ्जरी
९७ )