________________
वशादेकमपलप्याऽन्तरद् व्यवस्थापयन्ति बालिशाः । सोऽयगन्धगजन्यायः ।
येऽपि च तदेकान्तपक्षोपनिपातिनः प्रागुक्ता दोषास्तेऽप्यनेकान्तवादप्रचण्डमुद्गर प्रहारजर्जरित्वाद् नोच्छसितुमपि क्षमाः । - स्वतन्त्रसामान्यविशेषवादिनस्त्वेवं प्रतिक्षेप्याः-सामान्यं प्रतिव्यक्ति कथञ्चिद् भिन्नं, कथञ्चिदभिन्नं, कथञ्चित् तदात्मकत्वाद, विसदृशपरिणामवत् । यथैव हि काचिद् व्यक्तिरुपलभ्यमानाद् व्यक्त्यन्तराद् विशिष्टा विसदृशपरिणामदर्शनादवतिष्ठते, तथा सदृशपरिणामाऽऽत्मकसामान्यदर्शनात् समानेति तेन समानो गौरयम्, सोऽनेन समान इति प्रतीतेः । न चाऽस्य व्यक्तिस्वरूपादभिन्नत्वात् सामान्यरूपताव्याघातः । यतो रूपादीनामपि व्यक्तिस्वरूपादभिन्नत्वमस्ति, न च तेषां गुणरूपताव्याघातः । कथञ्चिद् व्यतिरेकस्तु रूपादीनामिव सदृशपरिणामस्याऽप्यस्त्येव । "पृथग्व्यपदेशाऽऽदिभाक्त्वात् । . . विशेषा अपि नैकान्तेन सामान्यात् पृथग्भवितुमर्हन्ति । यतो यदि सामान्यं सर्वगतं सिद्धं भवेत् तदा तेषामसर्वगतत्वेन ततो विरुद्धधर्माऽध्यासः स्यात् । न च तस्य तत् सिद्धम् । प्रागुक्तयुक्त्या निराकृतत्वात् । सामान्यस्य विशेषाणां च कथञ्चित् परस्पराऽव्यतिरे- केणैकाऽनेकरूपतया व्यवस्थितत्वात् । विशेषेभ्योऽव्यतिरिक्तत्वाद्धि सामान्यमप्यनेकमिष्यते । सामान्यात् तु विशेषाणामव्यतिरेकेण
तेषामप्येकरूपता इति । . . . - एकत्वं च सामान्यस्य संग्रहनयाऽर्पणात् सर्वत्र विज्ञेयम् । प्रमाणाऽर्पणात् तस्य कथञ्चिद् विरुद्धधर्माऽध्यासितत्वम् । सदृशपरिणामरूपस्य विसदृशपरिणामवत् कथञ्चित् प्रतिव्यक्तिभेदात् । एवं चाऽसिद्धं सामान्यविशेषयोः सर्वथा विरुद्धधर्माऽध्यासितत्वम् ।
१. जन्माऽन्थैर्दशभिर्यथाक्रमं पदचतुष्टयश्रोत्रद्वयशुण्डादन्तपुच्छरूपा गजावयवाः स्पृष्टाः । ततः
तेऽन्धाः स्वस्पृष्टरूपं स्तम्भाधाकारकं पूर्णतया गजस्वरूपं प्रतिपद्यमानास्तथैव स्थापयन्ति • तदितरानिषेधयन्ति तद्वत् ।। २. खण्डनीयाः । . ३. 'कथंचिद्भित्रम्' इति रा. पुस्तके नास्ति । ४. 'प्रतीतिः' इत क. पुस्तके पाठः । . ५. 'व्यपदेश' इति क. पुस्तके पाठः । ६. 'तेषाम्' इति ख. पुस्तके पाठः । (९६
suntuk स्याद्वादमञ्जरी