________________
ततश्च तेन बोधेन विविक्तविशेषग्रहणाऽभावात् तद्वाचकं ध्वनि तत्साध्यं च व्यवहारं नप्रवर्तयेत् प्रमाता । न चैतदस्ति । विशेषाऽभिधानव्यवहारयोः प्रवृत्तिदर्शनात् । तस्माद् विशेषमभिलषता, तत्र चव्यवहारंप्रवर्तयता तद्ग्राहको बोधो विविक्तोऽभ्युपगन्तव्यः ।
_एवं सामान्यस्थाने विशेषशब्दं, विशेषस्थाने च सामान्यशब्दं प्रयुञ्जानेन सामान्येऽपि तद्ग्राहको बाधो विविक्तोऽङ्गीकर्तव्यः । तस्मात् स्वस्वग्राहिणि ज्ञाने पृथक्प्रतिभासमानत्वाद् द्वावपीतरेतरविशकलितौ । ततो न सामान्यविशेषाऽऽत्मकत्वं वस्तुनो घटते । इति स्वतन्त्रसामान्यविशेषवादः ।
तदेतत् पक्षत्रयमपि न क्षमते क्षोदम् । प्रमाणबाधितत्वात् । सामान्यविशेषोभयाऽऽत्मकस्यैव च वस्तुनो निर्विगानमनुभूयमानत्वात् । वस्तुनो हि लक्षणम्-अर्थक्रियाकारित्वम् । तञ्चाऽनेकान्तवादे एवाऽविकलं कलयन्ति परीक्षकाः । तथाहि-यथा गौरित्युक्ते खुरककुत्सास्नालालविषाणाद्यवंयवसंपन्न वस्तुरूपं सर्वव्यक्त्यनुयायि प्रतीयते, तथा महिष्यादिव्यावृत्तिरपि प्रतीयते ।
___ यत्राऽपि च शबला गौरित्युच्यते, तत्राऽपि यथा विशेषप्रतिभासः, तथा गोत्वप्रतिभासोऽपि स्फुट एव । शबलेति केवलविशेषोच्चारणेऽपि, अर्थात् प्रकरणाद् वागोत्वमनुवर्तते ।अपिच, सबलत्वमपिनानारूपम् । तथादर्शनात् ।ततोवनाशबलेत्युक्ते . क्रोडीकृतसकलशबलसामान्यं विवक्षितगोव्यक्तिगतमेव शबलत्वं व्यवस्थाप्यते । तदेवमाबालगोपालं प्रतीतिप्रसिद्धेऽपि वस्तुनः सामान्यविशेषाऽत्मकत्वे, तदुभयैकान्तवादः प्रलापमात्रम् । नहि क्वचित् कदाचित् केनचित् सामान्य विशेषविनाकृतमनुभूयते । विशेषा वा तद्विनाकृताः ।केवलंदुर्नयप्रभावितमतिव्यामोह
१ 'तत्र' इति क. पुस्तके नास्ति । २ 'च' इति ख. पुस्तके नास्ति । ३ अनिन्द्यपद्धत्या । ४ अत्र ‘इति' पदमधिकं क. पुस्तके ।
स्याद्वादमञ्जरीkuttinkistan
९५