SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ "एतासु पञ्चस्ववभासनीषु प्रत्यक्षबोधे स्फुटमङ्गुलीषु । साधारणं रूपमवेक्षते यः श्रृङ्गं शिरस्यात्मन ईक्षते सः' ।।१।। एकाऽऽकारपरामर्शप्रत्ययस्तु स्वहेतुदत्तशक्तिभ्यो व्यक्तिभ्य एवोत्पद्यते । इति न तेन सामान्यसाधनं न्याय्यम् । किञ्च, यदिदं सामान्यं परिकल्प्यते-तदेकमनेकं वा । एकमपि सर्वगतमसर्वगतं वा । सर्वगतं चेत्- किं न व्यक्तयन्तरालेषूपलभ्यते । सर्वगतैकत्वाभ्युपगमे च तस्य-यथा गोत्वसामान्यं गोव्यक्तीः क्रोडीकरोति', एवं किं न घटपटादिव्यक्तीरपि, अविशेषात् । असर्वगतं चंद्-विशेषरूपाऽऽपत्तिः, अभ्युपगमबाधश्च । अथाऽनेकं गोत्वाश्वत्वघटत्वपटत्वाऽऽदिभेदभिन्नत्वात् ते तर्हि विशेषा एव स्वीकृताः। अन्योऽन्यव्यावृत्तिहेतुत्वात् । न हि यद् गोत्वं तदश्वत्वाऽत्मकमिति । अर्थक्रियाकारित्वं च वस्तुनो लक्षणम् । तच्च विशेषेष्वेव स्फुटं प्रतीयते । नहि सामान्येन काचिदर्थक्रिया क्रियते । तस्य निष्क्रियत्वात् । वाहदोहादिकासु-अर्थक्रियास विशेषाणामेवोपयोगात्। तथेदं सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा । भिन्नं चेद्-अवस्तु । "विशेषविश्लेषेणाऽर्थक्रियाकारित्वाऽभावात् । अभिन्नं चेद्-विशेषा एव, तत्स्वरूपवत् । इति विशेषैकान्तवादः । .. _ नैरामनयानुगामिनस्त्वाहु:स्वतन्त्रौ सामान्यविशेषौ । तथैव प्रमाणेन प्रतीतत्वात् । तथाहि- सामान्यविशेषावत्यन्तभिन्नौ, विरुद्धधर्माध्यासितत्वात्, यावेवं तावेवं, यथा पाथःपावको, तथा चेतौ, तस्मात् तथा । सामान्यं हि गोत्वाऽऽदि सर्वगतम् । तद्विपरीताश्च शबलशाबलेयाऽऽदयो विशेषाः । ततः कथमेषामैक्यं युक्तम् । नसामान्यात् पृथग्विशेषस्योपलम्भइति चेत्, कथं तर्हि तस्योपलम्भइति वाच्यम्। सामान्यव्याप्तस्येति चेद्-न तर्हि स विशेषोपलम्भः । सामान्यस्याऽपि तेन ग्रहणात् १. अशोकविरचितसामान्यदूषणदिक्प्रसारिताग्रन्थे । २. व्याप्नोति । ३. 'ते' इति क. पुस्तके नास्ति । ४. वाहः शकटवहनम् । ५. विश्लेषः-वियोगः । ६. पाथः-उदकम् । . (१४)ANTRAAAAAAAAAAAA स्याद्वादमञ्जरी)
SR No.002261
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji, Prashamrativijay
PublisherNaginbhai Paushadhshala
Publication Year2002
Total Pages306
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy