________________
अपिचविशेषाणांव्यावृत्तिप्रत्ययहेतुत्वंलक्षणम् । व्यावृत्तिप्रत्यय एव च विचार्यमाणो न घटते । व्यावृत्तिर्हि - विवक्षितपदार्थे इतरपदार्थप्रतिषेधः । विवक्षितपदार्थश्च स्वस्वरूपव्यवस्थापनमात्रपर्यवसायी, कथं पदार्थाऽन्तरप्रतिषेधे प्रगल्भते । नच स्वरूपसत्त्वादन्यत् तत्र किमपि येन तन्निषेधः प्रवर्तते । तत्र च व्यावृत्तौ क्रियमाणायां, स्वात्मव्यतिरिक्ता विश्वत्रयवर्तिनोऽतीतवर्तमानाऽनागताः पदार्थास्तस्माद् व्यवर्तर्नीयाः । ते च'नाऽज्ञातस्वरूपा व्यावर्तयितुं शक्याः । ततश्चैकस्याऽपि विशेषस्यपरिज्ञाने प्रमातुः सर्वज्ञत्वं स्यात् । न चैतत्प्रातीतिकं, यौक्तिकं वा । व्यावृत्तिस्तु-निषेधः । स चाऽभावरूपत्वात् तुच्छः कथं प्रतीतिगोचरमञ्चति खपुष्पवत् ।
तथा येभ्यो व्यावृत्तिः, ते सद्रूपा असद्रूपा वा । असद्रूपाश्चेत् तर्हि खरविंषाणात् किं न व्यावृत्तिः । सद्रूपाश्चेत्- सामान्यमेव । या चेयं व्यावृत्तिर्विशेषैः क्रियते-सा सर्वासु विशेषव्यक्तिष्वेका अनेका वा अनेका चेत् तस्या अपि विशेषत्वाऽऽपत्तिः, अनेकरूपत्वैकजीवितत्वाद् विशेषाणाम् । ततश्च तस्या अपि विशेषत्वान्यथानुपपत्तेर्व्यावृत्त्या भाव्यम् । व्यावृत्तेरपि च व्यावृत्तौ विशेषाणामभाव एव स्यात् । तत्स्वरुपभूताया व्यावृतेः प्रतिषिद्धत्वात्, अनवस्थापाताच्च । एका चेत्-सामान्यमेवं संज्ञाऽन्तरेण प्रतिपन्नं स्यात्, अनुवृत्तिप्रत्ययलक्षणाऽव्यभिचारात् । किञ्च, अमी विशेषाः सामान्याद् भिन्ना अभिन्ना वा ? भिन्नाश्चेद् मण्डूकजटाभारा - नुकाराः । अभिन्नाश्चेत् तदेव, तत्स्वरूपवत् । इति “सामान्यैकान्तवादः ।
पर्यायनयाऽन्वयिनस्तु भाषन्ते विविक्ताः क्षणक्षयिणो विशेषा एव परमार्थः । ततो विष्वग्भूतस्य सामान्यस्याऽप्रतीयमानत्वात् । नहि गवादिव्यक्त्यनुभवकाले 'वर्णसंस्थाना- त्मकं व्यक्तिरूपमपहाय, अन्यत्किञ्चिदेकमनुयायि प्रत्यक्षे प्रतिभासते । तादृशस्या- नुभवाऽभावात् । तथा च पठन्ति -
१. 'अज्ञातस्वरूपा' इति क . पुस्तके पाठः ।
२. 'व्यावृत्तिश्च' इत क. ख. घ. पुस्तकेषु पाठः । ३. प्रतीतिगोचरं प्राप्नोति ।
४. मण्डूके केशा न भवन्ति । तेन जटानामसंभवः ।
५. 'सामान्यैकान्तः' इति क. ख. घ. पुस्तकेषु पाठः । ६. वर्णाकृतिरूपम् । संस्थानं आकृतिः ।
स्याद्वादमञ्जरी
९३