________________
अतावकानाम्-अत्वदीयानाम्, अन्ययूथ्यानाम् । प्रतिभाप्रमादः-प्रज्ञास्खलितम् इत्यक्षरार्थः । अत्र 'चाऽल्पस्वरत्वेन वाच्यपदस्य प्राग् निपाते प्राप्तेऽपि यदादौ वाचकग्रहणं, तत्प्रायोऽर्थप्रतिपादनस्य शब्दाऽऽधीनत्वेन वाचकस्याऽर्च्यत्वज्ञापनार्थम् । तथाच शाब्दिकाः
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाइते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते' ।।१।। इति ।
भावार्थस्त्वेवम्-एके तीथिकाः सामान्यरूपमेव वाच्यतयाऽभ्युपगच्छन्ति । ते च द्रव्याऽस्तिकनयाऽनुपातिनो मीमांसकभेदा अद्वैतवादिनः, सांख्याश्च । केचिञ्च विशेषरूपमेव वाच्यं निर्वचन्ति । ते चं पर्यायाऽस्तिकनयानुसारिणः सौगताः । अपरे च परस्परनिरपेक्षपदार्थपृथग्भूतसामान्यविशेषयुक्तं वस्तु वाच्यत्वेन निश्चिन्वते । ते च नैगमनयानुरोधिनः काणादाः, आक्षपादाश्च ।
एतच्च पक्षत्रयमपि किञ्चित् 'चर्च्यते । तथाहि-संग्रहनयाऽवलम्बिनो वादिनः प्रतिपादयन्ति- सामान्यमेव तत्त्वम् । ततः पृथग्भूतानां विशेषाणामदर्शनात् । तथा सर्वमेकम् अविशेषेण सदितिज्ञानाऽभिधानाऽनुवृत्तिलिङ्गाऽनुमितसत्ताकत्वात् । तथा द्रव्यत्वमेव तत्त्वम् । ततोऽर्थाऽन्तरभूतानां धर्माधर्माऽऽकाशकालपुद्गलजीवद्रव्याणामनुपलब्धेः । किञ्च, ये सामान्यात् पृथग्भूता अन्योऽन्यव्यावृत्त्यात्मका विशेषाः कल्प्यन्ते, तेषु विशेषत्वं विद्यते, न वा । नो चेद-निःस्वभावताप्रसङ्गः । स्वरूपस्यैवाऽभावात् । अस्ति चेत्-तर्हि तदेव सामान्यम्। यतः समानानां भावः सामान्यम् । विशेषरूपतया च सर्वेषां तेषामविशेषेण प्रतीतिः सिद्धैव ।
१. 'लघ्वक्षरासखीदुत्स्वराद्यल्पस्वराज़मेकम्' ३।१।१६० । इति हैमशब्दानुशासनात् । २. 'अर्ध्यत्व' इति क. पुस्तकें पाठः । ३. श्रीभर्तृहरिकृतवाक्यपदीयस्य प्रथमकाण्डे श्लोक १२४ । ४. 'वाच्यतया शब्दार्थतया' इति क. पुस्तके पाठः । ५. विचार्यते । ६. गतिमतां गतेरुपग्रहो धर्मस्य लक्षणम् । स्थितिमतां स्थितेरुपग्रहोऽधर्मलक्षणम् । वर्तनालक्षण:
कालः । द्रुमादिपुष्पोद्भेदादिनैयत्यहेतु । इति तत्त्वार्थाधिगमसूत्रस्य पञ्चमाऽध्याये । (९२ AAAAAAAAAAAA स्याद्वादमञ्जरी